________________ सटीकाद्वैतदीपिकायाम् ननु परस्मिन्नागमविरोधेन दुःखापादनमयुक्तमिति चेन्न, आपादने प्रमाणविरोधस्यालङ्कारत्वात् / न च वयं परस्मिन्नापादयामोदरखम्, किन्तु आनन्दमयोब्रह्म जीवो वेति संशयदशायां न्यायानुगृहीतश्रुत्यर्थो ग्राह्या, न तु न्यायातिक्रम इति ब्रूमः / न पाल्पत्वनिवृत्तिलक्षणयाऽनन्दमयशब्दः परमात्मनीति वाच्यम् , मनुष्यानन्दादेहत्तरोत्तरशतगुणाधिक्यप्रतिपादनेनैव ब्रह्मानन्दे तत्सिद्धेः / जीवे मुख्यार्थे संभवति लक्षणाऽयोगाच। ननु जीवोऽपि दुःखप्रचुरोऽनादिश्चेति नानन्दमय इति चेत्, न, अविद्या- , यामानन्दात्मकब्राप्रतिबिम्बस्य जीवस्य ब्रह्माधीनाग्रिमक्षणसत्ताकतया तहिकारत्वात् / किं चानन्दमयस्य ब्रहात्वे "ब्रा पुच्छं प्रतिष्ठा" इति निर्दिष्टब्रहापुच्छत्वं तस्यानुपपन्नम् / नोकमेव पुच्छं पुच्छवच्च भवति। तस्मात् प्रतिष्ठापदसन्निधानादाधारलक्षणया सर्वाधारो ब्रहौव ब्रह्म पुच्छं प्रतिष्ठेति वाक्यार्थः। तदेव ब्रह्म नुवृत्तिरस्त्वित्याशक्य दुःखस्यैवानन्दविरोधित्वात्तस्य च पापफलत्वाद् ब्रह्मण्यनुपपत्तिरित्यभिप्रत्याह--तथा च यदीति / निरवद्यत्वश्रुतिविरोधाद् ब्रह्मणि दुःखापादनमयुक्तमित्युक्ताभिप्रायानभिज्ञः शङ्कते--नन्विति / / ___ आपादनस्य तर्कतया प्रमाणविरोधोऽनुकूल एवेत्याह--न आपादन इति / किं च ब्रह्मणो निर्दुःखत्वायैवानन्दमयशब्दार्थत्वं त्याज्यमित्येव म इति स्वाभिप्रायमाह--न च वयमिति / न तु न्यायातिक्रम इति / न्यायस्यातिक्रमो यस्मिन् सोऽर्थो न गृह्यत इत्यर्थः / ननु भूमशब्दवदानन्दमयशब्दोऽप्यल्पत्वनिवृत्तिलक्षणया ब्रह्मणि वत्स्यतीत्याशङ्कय "ते ये शतं प्रजापतेरानन्दाः स एको ब्रह्मण आनन्द" इत्यादिवाक्यैरेव तत्सिद्धेमेव मित्याह--न चाल्पत्वेति / किञ्च भूमपदस्य मुख्यार्थासम्भवाद्युक्ता लक्षणा प्रकृते नैवमित्याह-जीव इति / जीवेऽपि प्राचुर्यार्थस्य विकारार्थस्य वा मयटोऽनुपपत्तिरिति चोदयति--ननु जीवोऽपीति / विकारप्रायपाठादानन्दमयशब्दोऽपि जीवे प्रयुज्यमानो विकारार्थ एव जीवस्याप्यानन्दात्मकब्रह्मप्रतिबिम्बतया तदधीनाग्रिमक्षणसत्ताकत्वेन तद्विकारत्वाद् घटादेरपि मृदधीनसत्ताकतया मृद्विकारत्वादित्यभिप्रेत्य परिहरति--न अविद्यायामिति / एवं स्वमते दोषं परिहत्य परमते दोषान्तरमाह ---किं चेति / निर्दिष्टब्रह्मपुच्छत्वमिति बहुव्रीहिः /