________________ प्रथमः परिच्छेदः चेत्, न हीदं प्रकरणमानन्दमये पर्यवसितम्। उपक्रमोपसंहारपरामर्शेष्वानन्दमयस्याप्रतीतेः। न च "रसं ह्येवायं लब्ध्वा आनन्दीभवति" "यदेष आकाश आनन्दो न स्यातू" इत्युपक्रान्तस्यानन्दमयस्य परामर्शोऽस्तीति वाच्यम्, आनन्दप्रकृत्यर्थस्यैवाभ्यस्यमानत्वाता लक्षणायाश्चान्याय्यत्वात् / उपक्रमेऽप्यान्दमयशब्दस्यानमयादिविकारप्रायपाठेन विकारवाचिनो ब्रह्मणि वर्तितुमनहत्वात् / आनन्दप्रकृत्यर्थंकरसे ब्रह्मणि प्राचुर्यवाचिनोऽपि मयटः प्रयोगानुपपत्तः। न हि सैन्धवघने सैन्धवमय इति प्रयोगः सङ्गच्छते / प्रकृत्यर्थविरोधिनो मात्रया अनुवृत्तावेव प्राचुर्यार्थमयटः प्रयोगदर्शनात् / यथा ब्राह्मणमयो पाम इति / तथा च यदि ब्रह्मानन्दमयः स्यात्, तर्हि दुख्यपि स्यात् / न च परस्मिन् दुःखानुवृत्तिरुपपद्यते / ब्रह्मविदाप्नोति परमित्युपक्रान्तब्रह्मण एव प्रकरणित्वात् तत्पर्यवसायित्वादेतस्य प्रकरणस्यानन्दमये च पर्यवसितत्वात् स एव ब्रह्मत्यर्थः / आनन्दमयस्य प्रकरणित्वमसिद्धं तज्ज्ञापकाभावात्, किं त्वनन्तरनिर्दिष्टपुच्छब्राँव प्रकरणि, तस्यैवोपक्रमादिषु प्रतीतेः / तथा च तत्रैव प्रकरणपर्यवसानादानन्दमयो जीव एवेत्यभिप्रायेण दूषयति-न हीदमिति / अभ्यस्यमानत्वादानन्दमयस्य प्रकरणित्वमाशङ्कथाऽऽह-न च रसमिति। उपकान्तस्येति। "अन्योऽन्तर आत्माऽऽनन्दमय" इत्युपक्रान्तस्येत्यर्थः। आनन्दपदेन आनन्दमयस्याप्रतीतेने तस्याभ्यास इत्याहआनन्दप्रकृत्यर्थस्येति / मुख्यतः प्रतोत्यभावेऽपि लक्षणया प्रतीतिमाशङ्कयाहलक्षणायाश्चेति / ननु सिद्धान्तेऽप्यानन्दादिपदैः लक्षणयैव निर्विशेषब्रह्मप्रतिपत्तिः स्वीकृता / सत्यं तथापि भागत्यागलक्षणाङ्गीकारेण मुख्याथै कदेशग्रहणान्न श्रुतित्वहानिः / यथा २एतस्यैव रेवतीषु वारवन्तीयम्” इति वाक्ये एत्तच्छब्दस्य प्रकृतधर्मविशिष्टधर्मिवाचकस्य धर्ममात्रलक्षकत्वेऽपि न श्रुतित्वहानिः। तव तु मयडर्थस्यानानन्दस्य लक्ष्यत्वाच्छ्रतित्वहानिरिति भावः। आनन्दमयशब्देन ब्रह्मोपक्रमोऽ. प्यसिद्ध इत्याह--उपक्रमेऽपीति / विकारप्रायपाठेनेति / विकारार्थमयडन्तानेकपदैः सह पाठेनेत्यर्थः / नन्वस्य मयटः प्रकृत्यर्थप्राचुर्यवाचित्वाद् ब्रह्मपरत्वमित्याशङ्कयाऽऽहआनन्दप्रकृत्यर्थेति / सैन्धवघनो लवणपिण्डः। कुत्र तर्हि प्राचुर्यार्थमयटप्रयोग इत्यत आह-प्रकृत्यर्थविरोधिन इति / मात्रया लेशेनेत्यर्थः / प्रकृत्यर्थविरोधिनोऽपि ब्रह्मण्य