________________ 24 सटीकाद्वैतदीपिकायाम् महङकारातिरिक्तस्यात्मनो न ब्रह्मभेद. प्रतीयते तदुपदेशो भेदार्थ इति, तन्न; आत्मनो ब्राभेदे सार्वात्म्यानुपपत्रुक्तत्वात् / अहमिति प्रत्ययस्य चिदचिदुभयविषयताया वक्ष्यमाणत्वेन तत्प्रत्याय्यभेदस्याप्युभयधर्मिकत्वादात्मनो ब्राभेदाप्रतोत्यसिद्धेश्चेति। तथा तैत्तिरीयके "ब्रह्माविदामोति परम्' इत्युपक्रम्य “यो वेद निहित गुहायाम्" इति तस्य बुद्ध्यनुप्रवेशेन प्रत्य. क्त्वमुक्त्वा तं प्रत्यगात्मान स्थूलसूक्ष्मसूक्ष्मतरसूक्ष्मतमोपाधिविवेकेन दर्शयन्ती श्रुतिः पञ्चकोशानवताये "विज्ञानं यज्ञं तनुते, कर्माणि तनुतेपि च" इति इलोकेन विज्ञानमयस्याहंबुद्धिविषयस्य निखिलकर्मकर्तृत्वमुक्त्वा ततोऽन्यत् स्वरूपं तस्य रूपान्तराभिप्रायेणाह "अन्योऽन्तरन्तर आत्मानन्दमयः" इति / अतो न कर्ताहमनुभवगोचर एव जोवः // आनन्दमयो जोव एव न ब्रह्म नन्वानन्दमयो न जीवः, किंतु ब्रह्मैवान्नमयादेरिवानन्दमयपर्यायादन्यस्यानिर्देशात् / आनन्दमयस्यैव प्रकरणित्वादिति भेदस्यानधिगतत्वमपि नास्तीत्याह-अहमिति प्रत्ययस्येति / यथा शुक्तिं रजततया गृहीतवतः इदं रजतं शुक्तिर्नेति बुद्धिरधिष्ठानस्यापि शुक्तिप्रतियोगिकभेदं गृह्णाति / एवं ब्रह्मस्वभावमा त्मानं विकार्यहङ्कारात्मतया गृहीतवतोऽहं ब्रह्म न भवामीति बुद्धिरधिष्ठानात्मनोऽपि ततो भेदं गृह्णातीत्यर्थः। तैत्तिरीयकश्रतिपर्या. लोचनयाप्यहङ्कारात्मभेदसिद्धिरित्याह-तथा तैत्तिरीयक इति / प्रत्यक्त्वमुक्त्वेति / अहम्प्रत्ययप्रकाशमानत्वमुक्त्वेत्यर्थः / अहम्प्रत्यये प्रकाशमानत्वस्य देहादिसाधारणत्वात् ततो विवेकार्थ पञ्चकोशावतरणमित्याह-तं प्रत्यगात्मानमिति / पञ्चकोशानवतार्य दर्शयन्ती दर्शयिष्यतीति योजना। अतः कर्तुरहङ्कारादन्यत् स्वरूपं तस्थ जीवस्य, रूपान्तराभिप्रायेणाविद्योपाधिकरूपाभिप्रायेणेत्यर्थः / फलितमाह-अत इति / अन्यस्यानन्दमयस्य ब्रह्मत्वात् / कर्ता विज्ञानमय एव जीब इति शङ्कते-नन्वानन्दमय इति /