________________ प्रथमः परिच्छेदः सप्तभिर्वाक्यैर्भूनः सर्वात्मत्वमेव प्रतीयते, न तु सर्वगतत्वम्, एवकारासामञ्जस्यप्रसङ्गात् / सामानाधिकरण्यश्रुतेर्लोके तादात्म्ये प्रसिद्धत्वादुपक्रमस्याव्यवस्थितत्वाच / श्रुत्यन्तरे च "इदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमानि भूतानीदं सर्वं यदयमात्मा" इति स्पष्टं सर्वात्मत्वप्रतिपादनात् / सर्वगतत्वमाप्रपरत्वेऽपि स एवाधस्तादहमेवाधस्तादात्मैवाधस्तादिति प्रतिपर्यायमवधारणान जीवपरभेदः प्रत्येतुं शक्यते / तस्मादहङकारादेशोऽपि निष्कृष्टाहल्कारचैतन्यमानस्यादेश इति श्लिष्टतरम् / ब्रह्माहङ्कारयोः पृथगुपदेशस्याभेदार्थत्वनिरासः एतेन यद्वैपरीत्यमापादितम् तन्निरस्तम्, अध्यस्तोपाधिकल्पितस्याहमात्मनो वास्तवब्राभेदानुपपत्तेः / यदप्युक्त वधारणश्रुतिपीडा स्यादित्याह-तदसदिति / यच्चोक्तं वेदोपक्रमाधिकरणन्यायेनोपक्रमानुरोधेनोपसंहारो नेतव्य इति / तदयुक्तम् , तत्र हि निर्णीतोपक्रमस्यैवोपसंहारनियामकत्वं व्युत्पादितम् इह तु साधारणोपक्रमे विभुत्वानिणयान्नायमुपसंहारनियामक इत्याह - उपक्रमस्येति / किं चात्मनः श्रुत्यन्तरेषु स्पष्टं सर्वात्मत्वप्रतिपादनाद् गतिसामान्यन्यायेन सार्वात्म्यश्रुतिर्नान्यपरेत्याह-श्रुत्यन्तरे चेति / इदं ब्रह्म प्रसिद्धब्राह्मणजातिः, क्षत्रं क्षत्रियजातिः, लोका भूगदयः, भूतानि पृथिव्यादीनि, किं बहुना यदिदं सर्व तदयमात्मेति निरङ्कुशं सर्वात्मत्वश्रवणादित्यर्थः / सार्वात्म्यश्रुतेः सर्वगतत्वाभिप्रायेऽपि जीवेशभेदो न सिद्धयतीत्याहसर्वगतत्वमात्रेति / विशेष्यगतैवकारस्यान्ययोगव्यवच्छेदार्थत्वात् / पर्यायत्रयस्याप्यैकार्थ्यमित्यर्थः / स्वमतमुपसंहरति - तस्मादिति / निष्कृष्टेति / निष्कृष्टः पृथक्कृतोऽहकारो यस्मात् तन्निष्कृष्टाहकारम् / तच्च चैतन्यं च तथोक्तम् / ब्रह्माहङ्कारभेदप्रसिद्धेस्तयोरभेदार्थः पृथगुपदेशः स्यादिति यदुक्त तदूषयति-एतेनेति / अध्यस्तोपाधिरविद्या तत्कल्पितस्येत्यर्थः / यद्यप्यनधिगत एव वाक्यार्थः, तथापि स श्रुत्यन्तराविरुद्ध एव ग्राह्य इत्यभिप्रेत्याह-तन्नात्मन इति / ब्रह्मात्म 1. बृ० 2.4-6 /