________________ सटीकाद्वैतदीपिकायाम् तभिन्ने च तस्मिन् सर्वगतसर्वात्मब्रह्माभेदप्रतीतिर्न भवतीति दहरपुण्डरोकवेष्टितस्य परमात्मनः "'यावान् वा अयमकाशः, तावानेषोऽन्तर्हदय आकाशः" इत्युपाधिकृताल्पत्वनिवृत्तिपराकाशोपमोपदेशवदहमर्थस्याप्युपाधिकृतपरिच्छिन्नत्वनिवृत्त्या वास्तवसर्वात्मत्वादिपरा श्रुतिर्न विरुध्यते / एवं चापेक्षिताहमर्थविषयत्वादहङकारादेश, न तद्विरुडस्मार्थपरत्वं कल्प्यम् / सर्वामित्वश्रुतेः सर्वगतत्वपरत्वनिरासः __यचोक्तमस्मिन् वाक्ये न ब्रह्मणः सर्वात्मत्वं प्रतिपिपादयिषितम्, कि तु स एवाधस्तादित्युपक्रमानुरोधेन सर्वगतत्वमेव / तच भेदेऽपि न विरुद्धमिति, तदसत् / अत्र हि सावधारणैः पहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाश” इति हृदयपुण्डरीकावच्छिन्नस्य परमात्मनो दहरत्वस्य परिच्छिन्नत्वस्व प्रतीतेस्तव्यावृत्तये यावान् वा अयमाकाश इत्युपमोपादीयते। अयं बाह्याकाशो यावान् ताषानन्तहृदय आकाश इति पुण्डरीकसम्बन्धप्राप्तं दहरत्वं व्यावय॑ते, न त्वाकाशसाम्यम् ततोऽपि महत्वाद् ब्रह्मणः। एवमत्राप्यवच्छिन्नचैतन्यस्य परिच्छेदादि व्यावय॑ते सर्वगतत्वादिसड़कीतनेन' उत्तरवाक्ये तु ब्रह्मसमानस्वभावतया तदैक्यमुच्यत इति श्लिष्टतरमिति भावः / स्मार्तार्थस्य सर्वात्मत्वश्रुतिविरुद्धतयेह न परिग्रह इत्युपसंहरति-एवं चेति / किं चाहमर्थेऽवयववृत्तेरुभयवादिसम्प्रतिपन्नत्वादर्थान्तरे च लोकवेदाप्रसिद्धतया रुढेः कल्प्यत्वात् स्मातेप्रयोगस्याहकाराधिष्ठातर्यनिरुद्ध लक्षणयाप्युपपत्तरिह न तस्य वातोपीति भावः। पूर्ववादिना सार्वात्म्यश्रुतेरन्यपरत्वमुक्तमनुवदति दूषयितुम्-यच्चोक्तमिति / __स एवाधस्तात् स एवेदं सर्वमित्याद्यन्तवाक्ययोः श्रूयमाणमवधारणं सन्दंशन्यायेन मध्यस्थवाक्येष्वप्यनुषज्यते / तथा च कञ्चनपदार्थमवधिं कृत्वा तस्याधश्चोय च चतुर्दिक्षु च यत्किश्चिदस्ति तत्सर्व स एवेति षड्भिर्वाक्यैः प्रतीयते, स एवेदं सर्वमित्यवधिभूतपदार्थात्मकत्वम् / विभुत्वपक्षे तु अन्यनिषेधकाभ्यस्यमाना 1. छा• 8-1.2 / 2. मु० कीर्तनमुत्तर /