________________ प्रथमः परिच्छेदः अहङ्कारस्य सर्वगतत्वोपपत्तिः - नन्वहङ्कारस्य तदवच्छिन्नचैतन्यस्य वाऽऽत्मनो भिन्नत्वादसर्वगतत्वाच कथं सर्वगतत्वं सर्वात्मत्वं चेति चेत्, न; असौ ह्यहङ्कारशब्दोऽहमिति कृतिः करणं यस्मिन्नित्यवयववृत्त्याऽन्तःकरणावच्छिन्नं चैतन्यमभिधत्ते, समुदायशक्तेलोंके क्वचिदप्यक्लुप्तत्वात् / स्मार्तप्रसिद्धेश्च पौरुषेयतया अपौरुषेयवेदार्थाव्यव. स्थापकत्वात् / तथात्वे वा "शोकहर्षभयक्रोधलोभमोहस्पृहादयः / अहङ्कारस्य दृश्यन्ते" इत्यादिस्मृतावन्तःकरमावच्छिन्नजीवे एव तत्प्रयोगाच / शोकादेः कृतेश्च केवलजडधर्मत्वानुपपत्तेरित्युभयथाप्यन्तःकरणावच्छिन्नचैतन्यमेवाहङ्कारपदार्थः सार्वात्म्यश्रुत्य पेक्षितः प्रकृते ग्राह्यः। तथा च तत्रोपाधिपरिच्छेदात् परिच्छिन्ने एवमप्यहमर्थोपदेशानुपपत्तिं शङ्कते-नन्वहङ्कारस्येति / / दुःखादिधर्मिणस्तदवच्छिन्नस्य वाऽहमर्थस्य परिच्छिन्नत्वाद् भिन्नत्वाच्चाहमेवाधस्तादित्यादिनोच्यमानं सर्वगतत्वमहमेवेदं सर्वमिति सर्वात्मत्वं चानुपपन्नमित्यर्थः। अनित्यो घट इत्युक्ते यथा घटपदार्थकदेशव्यक्तरेवानित्यत्वान्वय एवमहमर्थकदेशचिदात्मन एव सवंगतत्वं सर्वात्मत्वं नानुपपन्नमित्यभिप्रायोऽयमुपदेश इति वक्तुमहङ्कारशब्दस्य शबले व्युत्पत्तिं दर्शयति-न, असौ ह्यहङ्कारेति / व्यापारः करणशब्दार्थो यस्मिन्नत्यधिकरणसप्तमी। अन्तःकरणावच्छिन्नमिति / केवलस्य जडस्याविकारिचैतन्यस्य वा ज्ञानव्यापारायोगादिति वक्ष्यति / ननु स्मृतावनिरुद्ध रूढ इत्याशङक्याह-स्मातेति / स्मार्तप्रसिद्धर्नियामकत्वमङ्गीकृत्याहमर्थेऽपि साऽस्तीत्याह-तथात्वे वेति / जन्ममृत्युश्च नात्मन इति श्लोकशेषः / तत्प्रयोगादिति / अहङ्कारपदप्रयोगादित्यर्थः। कृतेश्चेति / अहमिति कृतिः करणमित्युक्तकृतरित्यर्थः / व्युत्पत्तिबलात् स्मार्तप्रसिद्धिबलाञ्च चिदचिद्ग्रन्थिरेवाहङ्कारशब्दार्थ इत्याह-इत्युभयथापीति / ननु स्मात प्रसिद्धरन्यत्रापि सत्त्वादतः कथं जीवस्यैव परिग्रहस्तत्राह–सार्वात्म्यश्रुत्यपेक्षित इति / एवं शबले व्युत्पत्तिं प्रदर्य तस्य सर्वगतत्वादिसङ्कीर्तनस्याभिप्रायमाह-तथा चेति। तत्रेति / अहङ्कारादेशवाक्य इत्यर्थः तस्मिन्नहमर्थे उपाध्यवच्छिन्नस्य' चैतन्यस्य परिच्छेदादेरवास्तवत्वसिद्धये सर्वगतत्वादिसङ्कीर्तनमिति सदृष्टान्तमाह-दहरपुण्डरीकेति / "ब्रह्मपुरे 1. छिन्नचै० मु०।