________________ सटीकाद्वैतदीपिकायाम् जीवोपदेशस्यावश्यकत्वम् अकार्यस्वरूपए प्रत्यक्षादिसिद्धभेदस्य तस्य ब्रह्मणो भेदे आत्यन्तिक एव भेदः स्यादिति ब्रह्मणः सार्वात्म्यश्रुतिरुन्मत्तप्रलापवत् स्यात्, तचायुक्तम्, तुल्यसम्प्रदायत्वादिति' जीवस्य ब्रह्माभेदं सार्वात्म्यश्रुतिरपेक्षत इति स एव तत्तुल्यलक्षणतयाऽहङ्कारादेश इत्यत्र निर्दिश्यते। अतस्तस्या आकाङ्क्षितार्थपरत्वं सिद्धयति / आत्मादेश इत्यनेनैव तद्ग्रहणसिद्धौ किमहङ्कारादेशेनेति चेत्, न; आत्मा ह्यहंप्रत्ययविषयः कर्ता भोक्तेति लौकिकैनिश्चीयत इति तत्रैव प्रथममात्मशब्दाद् बुद्धिः स्यात् / तयोश्च विरुद्धत्वान्नाभेदमवगमयितुं शक्नोति / शक्नोति त्वहंपदार्थ पृथङनिदिश्य ततोऽन्य एवात्मेति प्रतिपादिते जीवपराभेदं प्रतिपादयितुमिति सार्वात्म्यश्रुत्यपेक्षयैवाहमात्मानमादौ निर्दिशति / ननु ब्रह्मणः सर्वात्मत्वश्रुत्यनन्तरं यथा घटायुपदेशो नापेक्षितः, एवं जीवोपदेशोऽपीत्याशङ्कय जडस्य ब्रह्मकार्यत्वेनारम्भणाधिकरणन्यायेन तदात्मकत्वमुप. पन्नम् / जीवस्य त्वनादेस्तदकार्यस्य ततो भेदेन प्रसिद्धत्वात् सार्वात्म्यश्रुतिरनुपपन्ना स्यात् / तच्चायुक्तम् / तथा च जीवस्य तदभिन्नलक्षणतया तद्भेदस्यौपाधिकत्वापादनेन तदभेदो वक्तव्य इत्यपेक्षित एव जीवोपदेश इत्याह-अकार्यस्वरूपस्येति / तुल्येति / वाक्यान्तरसमाननियमाध्ययनवत्वादित्यर्थः / स्वमते अपेक्षितपरत्वमुपसंहरति-इति जीवस्येति / एवं तात्मादेशादेवापेक्षितार्थसिद्धेमध्येऽहङ्कारादेशी व्यर्थः स्यादिति शङकते-आत्मादेश इतीति / पूर्वमात्मोपदेशे प्राकृतानामात्मशब्दाद् दुःखादिधर्मिण एव बुद्धिस्थत्वात् तस्य चाभेदायोग्यत्वालतिरपेक्षितार्थबोधनसमर्था न स्यात् / अहमर्थोपदेशे तु तस्य परिच्छिन्नत्वादनात्मत्वशङ्कायामनन्तरं केवलात्मोपदेशेऽहन्त्वसमानाधिकरणकर्तृत्वादिकं नात्मधर्म इति निश्चयो भवति / ततश्च जीवेश्वराभेदबोधनं सुकरमित्यभिप्रेत्यादावहङ्कारादेश इत्याहन, आत्मा ह्यहमिति / 1. तुल्यं तु साम्प्रदायिक ( पू० मी० 1-2.8) स्वाध्यायानध्यायपरिपालनादि इतरवेदभागतुल्यमित्यर्थः /