________________ प्रथमः परिच्छेदः इति चेत्, तन्न, अहङ्कारशब्दसाम्येऽपि रूपभेदेनाप्रत्यभिज्ञाय. मानतया श्रुतिस्मृत्योरेकार्थत्वाभावात् / स्मृतौ हि जीवस्थस्त्वनिरुद्ध इति परिच्छिन्नोऽहकारः प्रतीयते / श्रुतौ तु "अहमेवेदं सर्वन" इति सर्वात्मकोऽहङ्कारः। स्मातक्रमवाधादप्यात्मादेशो न स्मार्तवासुदेवस्यादेशः / न च स्मृतिमनुसृत्य सर्वात्मत्वश्रुतिपीडा युक्ता / अनाकाङ्क्षितत्वादपि नायं स्मार्तादेशः / अत्र हि "स एवेदं सर्वम्" इति ब्रह्मणः सर्वात्मत्यमुपदिश्यते / न च तत्र भेदनिर्देशोऽपेक्ष्यते, बिरुद्धत्वात् / न च भेदानुवादेन तस्यौपाधिकत्वमेवापेक्षितं प्रतिपाद्यत इति युक्तम्, उपाध्यनिर्देशात् / जीवस्तु तथा सर्वात्मत्वश्रुत्याऽपेक्षितः / __ यूनश्चैत्रस्य वृद्धचैत्रेण नामसाम्येऽपि यथा रूपभेदान्न प्रत्यभिज्ञा, एवं श्रौतस्मातयोरपीति दूषयति-तन्न, अहङ्कारेति / रूपभेदमेव दर्शयति-स्मृतौ हीति / किं च सर्वस्मृतिषु वासुदेवस्य प्रथमपाठात् तृतीय आत्मादेशस्तद्विषयो न भवति / उदाहृतस्मृतिरपि श्रौतक्रमविरुद्धा भवतीत्याह-स्मार्तक्रमेति / अपिशब्देन रूपभेदः समुच्चीयते / किं च स एवेदं सर्वमित्यादिना श्रूयमाणं सर्वात्मत्वं स्मार्त प्रसिद्धयनुसारेणान्यथा नेतुमशक्यम् / विरोधाधिकरणन्यायेन' श्रुतिविरोधे स्मातस्यानपेक्षस्वादित्याह--न च स्मृतिमिति / एकवाक्यताप्रयोजकाकाक्षायाः स्मार्तार्थऽभावान्न तनिदेश इत्याह-अनाकाक्षितत्वादिति। अनाकारक्षामेव प्रकटयति-अत्र हीति / ननु स एवेदं सर्वमिति भ्रूम्नः स्वविभूत्यनिरुद्धाद्यात्मकत्वमेवोच्यते / तथा च भिन्नस्वेन प्रसिद्धानामेतेषां कथमेकत्वमिति वीक्षायां भेदानुवादेन तस्यैवौपाधिकत्वमा. काइक्षितमुत्तरवाक्ये निर्दिश्यत इत्याशङ्कथ इदं सर्वमिति सर्वनाम्ना प्रसिद्धिमात्रपरामर्शाद् मैवमित्याह -न च भेदेति / उपाधेरश्रवणाच नानिरुद्धभेदस्यौपाधिकत्वमेव तदर्थ इत्याह -उपाध्यनिर्देशादिति / तव मते औपाधिकस्यापि परमार्थत्वान्न तत्राप्याकाक्षेति भावः। सिद्धान्ते वा कथमाकाक्षितपरत्वमस्येत्याशङ्कथाहजीवस्त्विति / अपेक्षित इति / ब्रह्माभेदेनेति शेषः / 1. विरोधेत्वनपेक्षं स्यादसति ह्यनुमानम् पू. मी. 10.302 /