________________ सटीकाद्वैतदीपिकायाम् प्रतियोगिनि च तथाविधे भूग्नि प्रत्यक्षादितो भेदभ्रमासम्भवात् / अस्तु वा यथाकथविद् भेदभ्रमः, तथापि नात्र नारायणानिरुद्धयोभेदभ्रमनिरासः सम्भवति, उपदेशभेदारेदप्रतीतेः / न चास्मन्मत इवोपदेशभेदेऽपि तुल्यलक्षणनिर्देशात तनिवृत्तिः। त्वदभिमतलक्षणस्य 'सर्वगतत्वस्य भेदेऽप्यविरोधात् / तदुभयोपस्थापकपदाभावाच / स्मृतिविरोधपरिहारः ननु स्मृतौ “अनिरुडो हि लोकेऽस्मिन् महानात्मा" इत्युपक्रम्य "सोऽहङ्कार इति प्रोक्तः सर्वतेजोमयो हि सः" इत्यनिरुडस्याहकारत्वेन निर्देशात् / तथान्यत्रापि "भूमा नारायणाख्यः स्यात् स एवाहकृतिः स्मृतः। जीवस्थस्त्वनिरुहो यः सोहकार इतीरितः // अणुरूपोऽपि भगवान् वासुदेवः परो विभुः / आत्मेत्युक्तः" इति स्मृतेश्च श्रुतौ पर्यायत्रयण त एव निदिइयन्त मानिकः, धर्मिग्राहकमानविरोधेनानुमानानुदयात् / तस्माद् भेदभ्रमासम्भवान्न तन्निवृत्त्यर्थ पृथगुपदेश इत्यर्थः। ननु स्मृतौ भूमाहकाराद्यपर्यायपदप्रयोगाद्भेदभ्रम इत्याशङ्क्याह-अस्तु वेति। अत्राप्यपर्यायशब्दैरेवोपदेशान्न भेदभ्रमनिवृत्तिरित्याह-- तथापीति / उपदेशभेदात् / अपर्यायपदैरुपदेशादित्यः / ननु यथा भूमात्मनोरुपदेशभेदेऽपि तुल्यलक्षणत्वेन परस्परं प्रत्यभिज्ञायमानत्वाद् भेदभ्रमनिवृत्तिस्तव मते, एवं ममापीत्याशक्यास्मन्मते सार्वात्म्यस्योभयलक्षणत्वाद् वस्तुतोभेदे तदसम्भवाद् भ्रमनिरासो 'युक्तः, तव तु विभुत्वस्यैव वाक्यार्थत्वेनाङ्गीकारात् तस्य च भेदेऽप्युपपत्तेनैवमित्याह-न चास्मदिति / एवं श्रुतावहङ्कारशब्देनानिरुद्धोपस्थितिमङ्गीकृत्य दृषितमिदानीमङ्गीकारं त्यजति-तदुभयेति ! नारायणानिरुद्धावुभयपदार्थों / ननु स्मृतौ भूमाहङ्कारात्मशब्दैर्नारायणानिरुद्धवासुदेवानामवगतत्वाच्छ तावपि तच्छब्दस्त एव प्रत्यभिज्ञायन्त इति चोदयति-ननु स्मृताविति / 1. गतस्य मु.। 2. युक्तस्तत्र-मु