________________ प्रथमः परिच्छेदः सुखमिति तु परमप्रेमास्पदतया "आनन्दो ब्रह्म" इत्यादिश्रुत्या च प्रमित इत्यद्वैतब्रह्मप्रकरणेऽस्मिन्नयमहङ्काराख्योऽनिरुद्धः स एवाधस्तादित्युपदिष्टभूमाख्यब्रह्मणस्तत्त्वान्तरं सदू व्यपदिश्यते, उत तदभिन्न एवाभिन्नप्रकारश्च ? ' भूमानिरुद्धयोरैक्यनिराकरणम् नाद्यः, अजिज्ञासितस्य शेषिभूमोपदेशप्रतिकूलस्य च निर्देशानुपपत्तेः। प्रकरणसमवायायोगाच्च / न द्वितीयः, पृथङ्निर्देशवयात् / न च भूनः सकाशादहकाराख्यानिरुडस्य भेदभ्रमनिवृत्त्यर्थं पृथगुपदेशः, अलोकिके अनिरुद्ध धर्मिणि स्यादित्याह-तस्य सुखत्वेति / अनुपपत्तिमेव स्पष्टयति-न हीति / आत्मनोऽपि सुखरूपत्वं नाङ्गीकृतम् / न च प्रामाणिकमित्याशङ्क्य कैश्चिदङ्गीकृतत्वादनुमानागमप्रमाणसिद्धत्वाच्च मैवमित्याह-आत्मा सुख मिति विति / उक्तप्रकारेणाद्वैतवस्तुपरमेवेदं प्रकरणमित्युपसंहरति-इत्यद्वैतब्रह्मप्रकरण इति / सति सप्तमी। एवं स्थिते यदुक्तं पूर्ववादिनाऽथातोऽहङ्कारादेश इत्यनिरुद्धादेश इति तद्विकल्प्य दूषयति-अस्मिन्नयमिति / अभिन्नप्रकारश्चेति / अभिन्नधर्म इत्यर्थः / __ भूमानं भगवो विजिज्ञास इत्येतदुपरिष्टादहकारं जिज्ञास इत्यदर्शनेन भूमन्येव जिज्ञासापर्यवसानादजिज्ञासितोऽनिरुद्धो भिन्नतत्त्वतया न प्रतिपाद्य इत्याह-अजिज्ञा सतस्येति / नन्वनुमानवाक्येऽजिज्ञासितस्य धूमादिलिङ्गस्योपदेशो दृष्ट इत्याशङ्कथ तस्य जिज्ञासितवह्निप्रतिपत्त्यनुकूलत्वादुपदेशः, इह तु तत्त्वान्तरभूतस्यानिरुद्धस्याद्वितीयभूमप्रतिपत्तिविरुद्धत्वादनुपदेश इत्याह-शेषिभूमेति / वाक्यभेदश्च स्यादित्याह-प्रकरणेति / प्रकरणिनापेक्षितार्थपरत्वं प्रकरणसमवायः, तदयोगादित्यर्थः / अभिन्नोऽभिन्नधर्मश्चेति पक्षं दूषयति न द्वितीय इति / ननु सिद्धान्ते यथा भूमात्मनोरभेदेऽपि भेदभ्रमनिरासार्थ पृथगुपदेशोऽर्थवानेवं भूमानिरुद्धयोरपि भेदभ्रमनिरासार्थ पृथगुपदेश इति नेत्याह-न च भूम्नः सकाशादिति / तत्र हेतुमाहअलौकिक इति / धर्मिप्रतियोगिप्रत्यक्षताया भेदप्रत्यक्षताप्रयोजकत्वाद् धर्मिप्रतियोगिनोभू मानिरुद्धयोरतीन्द्रियत्वेनाप्रत्यक्षत्वाद् तद्भेदोऽपि न प्रत्यक्षः। नाप्यानु