________________ सटीकाद्वैतदीपिकायाम् अन्यो ह्यन्यस्मिन् प्रतिष्ठित इति काकाऽन्योन्याभावमात्रस्यैव निषेधात् / उत्तरवाक्येऽप्यस्यैव प्रतिपादनाच / अतः सजातीयादिभेदशून्य एव भूमा, स एव विज्ञेय इति गम्यते। भूमपदार्थ निष्कर्षः यद्यपि 'भूमन्' शब्दो भावप्रत्ययान्तो बहुत्ववाचका, तथाप्यत्राल्पत्वनिवृत्तिलक्षणयाऽनवच्छिन्नवस्तुपरः / अन्यथा तल्लक्षणानुपपत्तेः / तस्य सुखत्वामृतत्वानुपपत्तेश्च / न हि केनचिद् बहुत्वमेव सुखममृतं चेत्यङ्गीकृतम्, प्रमाणसिहं था। आत्मा कथं तप्रितिष्ठितस्य भूम्नः स्वे महिम्नि प्रतिष्ठोक्तेत्याशङ्कायामाह सनत्कुमारः- गोअश्वमिह" इत्यादि, गवाश्वहस्तिहिरण्यदासभार्यक्षेत्रायतनादि सर्वत्र महिमेति प्रसिद्धम् / तद्वांश्चैत्रो यथा तत्र प्रतिष्ठितो भवति, तथा नाहमेतत् स्व भिन्नमहिमानमाश्रितो भूमेति ब्रवीमि, किन्त्वन्यो ह्यन्यस्मिन् प्रतिष्ठित इति ब्रवीमीति स होवाचेति सम्बन्धः। अन्यः खलु लोकेऽन्यस्मिन् प्रतिष्ठितो भवति भूम्नश्च यत्र नान्यत् पश्यतीत्यादिना द्वैतनिषेधपुरःसरमद्वैतसुखात्मतया लक्षितत्वात् तदन्यपदार्थाभावात् स्वेमहिम्नोत्युक्त्या निरधिकरणत्वमेवाभिप्रेतमिति श्रुत्यर्थः / विभुत्वस्य भूमरवेऽधिकरणप्रश्नोत्तरमन्यथैव स्यादित्याह -अन्यथेति / ननु नियम्येऽपि प्रतिष्टितपदप्रयोगादन्यनियम्यत्व विषयः प्रश्नः, उत्तरमपि तदभावपरमित्याशङ्कयास्मिन्नपि पक्षे भेद निषेधपुरःसरमप्रतिष्ठितत्वाभिधानाद्वैत भूमशब्दार्थ इत्याह-न चेत्यादिना / द्वितीयमानशब्दः कात्य॑वाची स एव धस्तादित्युत्तरवाक्यपर्यालोचनयाप्येवमेवेत्याह उत्तरवाक्येऽपीति / ननु भूमशब्दस्य ' बहोर्लोपो भू च बहोः" इति सूत्रपर्यालोचनया भावार्थप्रत्ययान्तबहुशब्दप्रकृतिकत्वेन बहुत्वसंख्यावाचकत्वात् कथमद्वितीयवस्तुपरत्वमित्याशङ्कय, बहुत्व ख्यायाः प्रकृतवाक्यार्थान्वयानुपपत्तेलक्षणयाप्यन्वययोग्यवस्तुपरत्वं वक्तव्यमित्याह-यद्यपीत्यादिना / संख्यापरत्वे ऽनुपपत्तिं दर्शयति-अन्यथेति / यत्र नान्यत्पश्यतीति वाक्योक्ताद्वितीयत्वलक्षणस्य बहुत्वानुपपत्तेरित्यर्थः। किं च भूम दार्थोद्देशेन सुखत्वामृतत्वाभिधानमप्यनुपपन्नं 1. तै० 3, 61 / 2. सचाध-मु० पा०। 3. पा० सू०५-४-१५८।