________________ प्रथमः परिच्छेदः "तरति शोकमात्मवित्" इत्युपक्रान्तस्यात्मनः यः सत्येनातिवदति" इति सत्यशब्देनानुकृष्टस्य तद्विज्ञानसाधनश्रवणायुपन्यासपूर्वकम् “सुख त्वेव विजिज्ञासितव्यम्" इति सुखात्मतयोपन्यस्तस्य "सुखं भगवो विजिज्ञास" इति जिज्ञासापूर्वकम् “यो वै भूमा तत्सुखम् नाल्पे सुखमस्ति, भूमैव सुखं", न परिमितम् इत्युक्त्वा भूमानं भगवो विजिज्ञास" इत्याङ्क्षामवतार्य ""यत्र नान्यत् पश्यति नान्यच्छणोति नान्यद विजानाति स भूमा" इति निरस्तनिखिलभेदस्य वस्तुनो भूम्नो लक्षितत्वात् / “अथ यत्रान्यत्पश्यत्यत्यच्छणोत्यन्यद्विजानाति तदल्पम्" इति वस्त्वन्तरपरिच्छिन्नस्याल्पत्वं सङ्कीर्त्य "अथयदल्पं तन्मय॑म्" इति मर्त्यत्वेन नाल्पे सुखमस्ति" इत्य ' प्रतिज्ञातमर्थं जडप्रपञ्चहेतुत्वेन विशदयति-तरति शोकमात्मविदित्यादिना / तद्विज्ञानसाधनेति / यद्यपि श्रवणादीनां पुरुषापराधनिरास एवोपक्षयः वाक्यार्थज्ञानपर्यवसायित्वे तस्य स्वतस्त्वहानेः तथापि तत्सत्तावधारणात्मकज्ञानेन प्रतिबन्धनिरासकतयाऽवश्यापेक्षणीयत्वाच्छवणादीना तत्साधनत्वव्यपदेश इति द्रष्टव्यम् / श्रवणायुपन्यासपूर्वकमिति / 'यदा वै विजानाति' “यदा वै मनुत" इत्यादिनेति शेषः। भूमैव सुखमित्येवकारार्थमाह-न परिमितमिति / यत्र यस्मिन् वस्तुनि अन्यद् भिन्न कार्यजातं न पश्यतीत्यादिना नामरूपात्मकभेदप्रपञ्चप्रमाणस्य निषिद्धत्वाद द्वितीयवस्तुपरमेवेदं प्रकरणमित्याह-इति निरस्तनिखिलभेदस्येति / भिन्नप्रपश्चस्य परिमितत्वदुःखहेतुत्वाभ्यां निन्दितत्वेन चाद्वितीयवस्तुपरमिदमित्याह-अथ यत्रान्यत् पश्यतीत्यादिना / ननु यत्र नान्यदिति वाक्ये यत्रेति विषय 1. छा० 7, 1, 2 / 2. छा० 7 16, 1 / 3. छा० 7, 22 1 / 4. छा० 7, 22, 1 / 5. छा० 7, 23, 1 / 6. आत्मसुखत्वेन म० प्रा० / 7. छा० 7, 23, 1 / 8. छा० 7, 24, 1 / 6. छा० 7, 24, 1 / 10. छा० 7, 22, 1 / 11. छा० 7, 17, 1 /