________________ सटीकाद्वैतदीपिकायाम् वैतमतखण्डनम् अत्रेदमभिधीयते-इदं हि प्रकरणं यदज्ञानाच्छोको यज्ज्ञानात् तन्निवृत्तिः स एवात्मा सुखम् / तदेव च भूमा / स च निखिलभेदाभावात्मेति प्रतिपादयति // पक्षे जीवपरयोर्भेदेन 'स एवेदं सर्वम्" २आत्मैवेदं सर्वम्' इत्युभयोः सार्वाम्यश्रुतिः पीड्येतेत्याशङ्कय अतेरन्यपरत्वमाह / सर्वात्म्यश्चेति / स एवाधस्तादित्याद्य पक्रमस्य सर्वदेशसम्बन्धाभिधानेन विभुत्वमात्र रत्वात्स एवेदं सर्वमित्याधुपसंहारोऽपि वेदोपक्रमाधिकरणन्यायेनोपक्रान्तविभुत्वपरतया नीयत इत्यर्थः / ननु विभुपदार्थयोः परस्परसम्बन्धाभावान् कथं सर्वगतत्वमित्याशङ्कय सर्वमूर्तद्रव्यसंयोगित्वमेव विभुत्यम्, तच्च भेदेऽपि न विरुद्धयत इत्याहतस्य चेति / अहङ्कारादेशस्यानिरुद्धविषयत्व निराकरणाय जीवविषयत्वं सिषाधयिषुः प्रकरणाथं परिशोधयति-इदं हीत्यादिना। .. सोऽहं भगवो मन्त्रविदेवास्मि, नात्मवित्। श्रुतं ह्येव मे भगवदृशेभ्यस्तरति शोकमात्मवित इति सोऽहं स्वात्मरूपाज्ञानाच्छोचामि। शोचन्तं मां शोकसागरात स्वात्मतत्त्वोपदेशेन समुत्तारयत्वि"त्युपक्रमे नारदेनात्मतत्त्वस्यैव सनत्कुमारं प्रति पृष्टत्वात् तत्परमेवेद प्रकरणमित्याह यदज्ञानाच्छोक इत्यादिना / दुःखादिधात्मज्ञानस्य शोकहेतुत्वात् तद्विलक्षणसुखात्मज्ञानादेव शोकनिवृत्तिरित्यभिप्रायेणात्मा सुखत्वेन निर्दिश्यत इत्याह . स एवात्मा सुखमिति / सुखस्य सातिशयत्व विषयपारतच्यादिप्रतीतेः कथमात्मरूपत्वमित्याशङ्कय तस्यान्तःकरणवृत्तिविशेषोपाधिप्रयुक्तत्वात् स्वतोऽपरिमितत्वेन निर्दिश्यत इत्याह-तदेव च भूमेति / भूम्नो लक्षणं चोक्तमित्याह / स चेति / निखिलश्चासौ भेद्यत इति भेदो जडप्रपञ्चस्तदभावस्वरूप इत्यर्थः। आरोपिताभावस्याधिष्ठानव्यतिरेकेण निरूपयितुमशक्यत्वाजडप्रपञ्चस्य चित्प्रकाशरूप आत्मनि कल्पितत्वात् तदभावात्मना यत्र नान्यत् पश्यतीत्यादिवाक्यं भूमानं लक्षयतीत्यर्थः / 1. छा० 7, 25, 1 / 2. छा० 7, 25, 2 / 3. छा० 7, 1, 2 / 4. भेदाभावादात्मा मु० पा० तदयुक्तं टीकाविरोधात् /