________________ प्रथमः परिच्छेदः पृथगुपदेशः। तथापि तयोरभेदे किमपराडमहकारात्मनोरभेदेन / सिद्धान्तिशङ्का ननु भूमात्मनो देन प्रत्यक्षसिद्धयो देन व्यपदेश ऐक्यार्थः, द्वयोः सार्वात्म्यायोगात्। अहङ्कारस्य त्वात्मत्वेन प्रत्यक्षसिद्धस्य भेदव्यपदेशो भेदार्थ इति चेत्, न; अहमादन्यस्यात्मनो भूमाख्यब्रह्मणो भिन्नत्वेन प्रत्यक्षासिद्धत्वात् तयोरुपदेशो भेदार्थः, अहमर्थस्य तु ब्रह्मभिन्नत्वेन सिद्धस्य व्यपदेश ऐक्यार्थ इति वैपरीत्यापत्तेः / सार्वात्म्यच नेह प्रतिपिपादयिषितम्, स एवाधस्तादहमेवाधस्तादात्मैवाधस्तादित्युपक्रमानुसारेणोपसंहा. रेऽपि स एवेदं सर्वमित्यादेः सर्वगतत्वपरत्वात् / तस्य च भेदे - प्यविरोधादिति / किञ्चेति / न ह्यत्र मुखतो भेदवाचकपदमस्ति / अथशब्दस्यापि प्रकारान्तरेणोपदेशादारम्भार्थत्वे सम्भवति प्रकृतादर्थान्तरपरत्वकल्पकाभावात् / किन्तु पृथगुपदेशान्यथानुपपत्त्या भेदो वक्तव्यः। न चानुपपत्तिरस्ति / त्वन्मते जीवब्रह्मणोः सत्यप्यभेद स एवाधस्तादात्मैवाधस्तादिति पृथगुपदेशदर्शनादित्यर्थः। - नन्वनधिगतार्थबोधकत्वेनार्थवत्त्वाद् वेदवाक्यानां जीवब्रह्मणोः प्रत्यक्षसिद्धभेदयोः समानस्वभावप्रतिपादनद्वारेणाभेदपरः पृथगुपदेशः / एवश्वोभयोरपि सर्वात्म्यमप्युपपन्नं भवति / अहङ्कारात्मनोस्त्वभेदस्यैव प्रत्यक्षसिद्धत्वात् तयोर्भदार्थ एव पृथगुपदेश इति शङ्कते-नन्विति / एवं ताशनायाद्यतीतजीवस्य ब्रह्मापेक्षया भेदेन प्रत्यक्षसिद्धत्वाभावादहमोश्वराद्भिन्न इति प्रत्ययस्य चदुःखादिधर्म्यहकारविषयत्वात् त्वदभिमतजीवेश्वरयो|दार्थस्तयोः पृथगुपदेशः स्यादहमर्थेश्वरभेदस्य प्रत्यक्षसिद्धत्वात् तयोस्वभेदार्थः पृथगुपदेशः स्यादिति वैपरीत्यमापद्यतेत्याह-न, अहमदन्यस्येति / अस्मिन् 1. स एवाधस्तादिति पृथगु पा० /