________________ सटीकाढतदीपिकायाम् अन नवीनः, नात्र किलाहमर्थोऽहड्तारादेश इत्यनेनोच्यते येनाथात आत्मादेश इत्येतत्ततोऽन्यात्मतत्त्वविषयं स्यात, किनवनिरुद्ध एव तस्य स्मृतिष्वहकार इति प्रसिद्धः। अहम] च जीवेऽहङ्कारपदाप्रयोगात् / तस्य दकारान्तास्मच्छब्दनिष्पन्नकेवलाहंशब्दवाच्यत्वात् / अहमेवाधस्तादित्यत्रापि मकारान्त:व्ययत्वेनादकारान्तत्वात् / किश्च, न केवलं पृथगुपदेश इत्येतायता भेदः सिध्यति, ब्रह्मात्मनोरपि भेदप्रसङ्गात् / अस्ति हि तयोरपि श्रुतिं दर्शयति / श्रुतिस्तावदिति / नन्वथात आत्मादेश इति श्रुतिः दुःखादिधर्म्यहङ्कारात्मविषयैव किन्न स्यादित्याशङ्कय तस्याधस्तनवाक्ये उपदिष्टत्वात् तत्साक्षिचि. दात्मविषय एवायमुपदेश इत्यभिप्रत्याह--अथातोऽहङ्कारादेश इत्यादिना / अहङ्कारमुपदिश्येति / ननु आत्मशब्दस्य ब्रह्मण्यपि सम्भवादथात आत्मादेश इत्युपदेशस्तद् विषय एव / तथा च न जीवस्याहङ्काराद्भेदसिद्धिरिति शङ्कते--नन्विदमिति / भूमाख्यब्रह्मणोऽहङ्कारोपदेशात् प्रागेवोपदिष्टत्वादुत्तरत्र तत्परिग्रहोऽनुपपन्न इत्याह-न, तस्येति / व्रतवादिमतपूर्वपक्षः नन्वथातोऽहकारादेश इत्यत्राहङ्कारपदेन न दुःखादिधर्मिण उपदेशः, तस्य प्रसिद्धत्वात् / दकारान्तास्मच्छब्दनिष्पन्नाहम्पदमात्र वाच्यत्वाच्च / किन्तु “जीवस्थस्त्वनिरुद्धो यः सोऽहकार इतीरितः” इत्यादिस्मृतिष्वहङ्कारपदार्थत्वेन प्रसिद्धोऽनिरुद्ध एव निर्दिश्यत इत्यभिनवपक्षोत्प्रेक्षकः कश्चित् प्रत्यवतिष्ठत इत्याह-अत्र नवीन इति। नन्वथातोऽहड्वारादेश एवेत्युक्त्वाऽनन्तरम् “अहमेषाधस्तादहमुपरिष्टादहं पश्चादहं पुरस्तादहं दक्षिणतोऽहमुत्तरतोऽहमेवेदं सर्वम्" इत्यहंशब्दवाच्यस्याहम्प्रत्ययालम्बनस्याभ्यस्यमानत्वादादावपि स एव निदिश्यत इति सिद्धान्त्याशयमाशङ्कयाह / अहमेवाधस्तादित्यत्रापीति / अस्मच्छब्दप्रकृतिकस्याहंशब्दस्य प्रयोक्तृवाचकत्वादपौरुषेये च वेदे प्रयोक्तुरभावान्मकारान्ताव्यय एवायमहंशब्दः / अस्य च जीवे प्रयोगाभावादुपक्रमानुरोधेनानिरुद्ध एवाभ्यस्यत इति भावः / अङ्गीकृत्याप्यस्याहमर्थपरत्वं पृथगुपदेशमात्रेणाहकारात्मनो दो न सिध्यतीत्याह 1. मात्रावा-पा० / 2. छा० 7, 25, 1 /