________________ प्रथमः परिच्छेदः त्वंपदार्थे विपतिपतिः . तत्र त्वंपदार्थं देहेन्द्रियमनोबुद्धिप्राणव्यतिरिक्तं कर्तृ. भोक्तृस्वभावं मन्यमानास्तविलक्षणब्रह्मात्मैकत्वमात्मनोऽ. सम्भावयन्तस्तार्किकादयो वाक्यमविवक्षितार्थमन्यपरं वा मन्यन्ते / साक्षिनिरूपणम् तत्र त्वंपदार्थमात्मानं श्रुतिन्यायाभ्यामहमनुभवगोचरात् पृथक्कृत्य नत्साक्षितया प्रदर्शयामः / श्रुतिस्तावच्छान्दोग्ये "अथातोऽहङ्कारादेश"" इत्यादिनाऽहङ्कारमुपदिश्य ततोन्यात्मानं दर्शयति “अथात आत्मादेश एवात्मैवाधस्तादात्मोपरिष्टादात्मा पश्चादात्मा पुरस्तादात्मा दक्षिणत आत्मोत्तरत आत्मैवेदं सर्वम्" इति। नन्विदं ब्रह्मविषयमिति चेत्, न, तस्य वाक्योपक्रमे "स एवाधस्तात् स उपरिष्टात् स पश्चात् स पुरस्तात् स दक्षिणतः स उत्तरतः स एवेदं सर्वम्" इति पृथगेव निर्दिष्टत्वात्। तत्रेति / तत्त्वमा दिवाक्य इत्यर्थः / ब्रह्मात्मैकत्वमिति / ब्रह्मस्वरूपेणैक्यमित्यर्थः। नन्वध्ययनविधिपरिगृहीतानां तत्त्वमादिवाक्यानां कथ मङ्गल्यग्रादिवाक्यवदानर्थक्यमित्याशङ्कय सम्पदाधुपासनपरत्वं वा भवत्वित्याह-अन्यपरं वेति / एवं विप्रतिपत्ति प्रदर्य तन्निरासार्थ विचार आरभ्यत इत्याह-तत्र त्वं पदार्थमिति / अहमनुभवगोचरात् / दुखादिधर्मिणोऽहङ्कारात् / तत्साक्षितयेति / अहङ्कारतद्धर्मसाक्षितया सर्वोपप्लवर हितविज्ञानत्वेनेत्यर्थः। श्रुतिन्यायाभ्यामित्युक्तम् / तत्र प्रथम 1. छा० 7, 25, 1 / 2. छा० 7, 25, 2 / 3. छा० 7, 25, 1 / 4. अमुल्यग्रे हस्तियूथशतमास्ते इत्यादिवाक्यम् / 5. अनन्तं वै मनोऽनन्ता विश्वेदेवा इतिवद् आरोप्य प्रधानंउपासनं सम्पत् /