________________ सटीकाद्वैतदीपिकायाम नन्वधीतस्वाध्यायस्यापि' जिज्ञासाहेतुभूतब्रह्मात्मैक्यप्रतिपत्तिर्न सम्भवति, तद्बोधकाभावोत् / न तावत्सत्यादिवाक्यात् तदवगमः, तस्य तत्पदार्थमात्रविषयतया वाक्यार्थागोचरत्वात् / नन्वनन्तपदात् त्रिविधपरिच्छेदराहित्यप्रतिपत्तेर्जीवपराभेदः सिद्ध इति चेत् , जीवस्य घटादिवद्वाध्यत्वाभ्युपगमेऽपि ब्रह्मानन्त्योपपत्तेः।। न चाधिकारिणो जीवस्यासत्यत्वानुपपत्तिप्रतिसन्धानस हितानन्तपद. वद्वाक्यादेतदवगम इति वाच्यम् , अनुपपत्तिप्रतिसन्धानसापेक्षत्वे वाक्यस्य मानान्तरानपेक्षत्वक्षतिप्रसङ्गात् / विचारात् प्राग जीवस्य सत्यत्वानिर्धारणेनासत्त्वानुपपत्तिप्रतिसन्धानायोगाच्च / नन्वस्तु तत्त्वमस्यादिवाक्यात् तदवगम इति चेत् , न, विकल्पासहत्वात् / किं तत्त्वमादिवाक्यं सत्यादिवाक्यसमानार्थम् उतातिरिक्तार्थम् ? नाद्यः, अस्य वैयापातात् / न द्वितीयः, सत्यादिवाक्यप्रमेयब्रह्मानभिधायकतया कल्पितविषयत्वापातात् / अतो वाक्यार्थे ब्रह्मण्यापातज्ञानासम्भवेन तजिज्ञासानुपपत्तेरिति तत्राह..... तत्प्रतिपादकानीति / विचारात् प्राग् ब्रह्मात्मैक्यसंशयाद्यनुकूलापातज्ञानजनकानि. सति तु विचारे संशयादिविरोधिसत्तानिश्चायकप्रमाजनकानीत्यर्थः। अयं भावः-यद्यपि सत्यादिवाक्यात्तत्वमादिवाक्यमनधिकविषयम् , उभयोरप्यखण्डार्थत्वात् / तथापीदं न व्यर्थम्, सर्वज्ञत्वकिश्चिज्ज्ञत्वाद्युपलक्षितस्वरूपाभेदावगमस्य तद्विषयाज्ञानसंशयविपर्यास निवर्तकस्य तत्तदुपलक्षितोपस्थापकपदयुक्तवाक्यैकसाध्यत्वात् / तत्तेदन्तोपलक्षितदेवदत्तस्वरूपाभेदावगमस्य सोऽयं देवदत्त इति वाक्यैकसाध्यत्ववत् / न च जीवस्वरूपब्रह्माभेदविषयन्यायानुगृहीतसत्यादिवाक्यादेव तादृशी प्रतिपत्तिः सिध्यतीति वाच्यम् , अभेदविषयन्यायानां तत्त्वमादिवाक्यानत्वात् / अन्यथा रात्रिसत्रपितृयज्ञन्यायानुगृहीतोत्पत्तिवाक्यादेव स्वर्गकामाधिकारसिद्धः स्वर्गकामो यजेतेत्यस्य वैयथ्यप्रसङ्गादिति / ___ एवं प्रत्यग्ब्रह्मैक्य जिज्ञासासम्भवात् तव्युत्पादनमर्थवदित्युक्तम् / इदानीं तदुपयोगित्वेन त्वम्पदार्थविवेकः क्रियत इत्यभिप्रेत्य तजिज्ञासाहेतुत्वेन वादिविप्रतिपत्तिं दर्शयति / 1. स्वाध्यायानां पा०। 2. उभयत्रार्थवादिकमेव फलं इति न्यायः /