________________ प्रथमः परिच्छेदः प्रन्थावतरणिका __अथाधीतसाङ्गस्वाध्यायस्य साधनचतुष्टयसम्पन्नस्यापातप्रतिपन्नब्रह्मात्मैक्रजिज्ञासोस्तत्प्रतिपादकानि बहूनि वाक्यानि दृश्यन्ते "तत्त्वमसि", "अहं ब्रह्मास्मि"२ इत्येवमादीनि / नन्वद्वैतदीपिका कुर्व इति प्रत्यग्ब्रह्मैक्यस्य व्युत्पाद्यत्वमुक्तम् / तदयुक्तम् / तस्मिन् जिज्ञासाऽयोगात् / तदयोगश्च धर्मिज्ञानाभावात् / तथा हि-किं विचारात् प्राक् प्रत्यक्षादिप्रमाणात् तदवगमः, उतागमात् , अथवा स्वप्रकाशत्वेन ? नाद्यः, ब्रह्मण औपनिषदत्वेन प्रत्यक्षागोचरत्वात् / . न द्वितीयः, विचारात्प्राक् तदयोगादन्यथा विचारवैयर्थ्यात् / न तृतीयः, जिज्ञास्यस्य स्वप्रकाशत्वेनाज्ञातांशाभावेन जिज्ञासाऽयोगादित्या. शङ्कयाह-अथेति / प्रारम्भार्थोऽथशब्दः। अयमभिसन्धिः-नित्येनैवाध्ययनविधिनाऽधीतसाङ्गस्वाध्यायस्य प्राकृतसुकृतविशेषपरिपाकवशादिह जन्मनि जन्मान्तरे वा काम्यनिषिद्धवर्जनेन नित्यनैमित्तिककर्माण्यनुष्ठितवतः शुद्धचित्तस्य पदार्थषु नित्यानित्यविमर्शवतः स्पर्धासूयाक्षयिष्णुतादुःखदोषदर्शनेनैहिकामुष्मिकभोगाद् विरक्तस्य शान्त्यादिसाधनसम्पन्नस्य नित्यपुरुषार्थप्रेप्सोरपेक्षितोपायं ब्रह्मात्मैक्यज्ञानमधीतस्वाध्यायादवगतबतो भवति ब्रह्मात्मैक्यजिज्ञासा प्रवृत्तिपर्यन्ता। ___ न च विचारात् प्रागधीतस्वाध्यायाद् ब्रह्मावगतौ विचारवैयर्थ्यमिति वाच्यम् , विचारमन्तरेणोत्पन्नस्यानभ्यासदशापन्नजलादिज्ञानवत्सत्तानवधारणास्मकत्वादसम्भावनादिपुरुषापराधप्रतिबद्धत्वाद्वा पुरुषार्थपर्यवसायित्वाभावेन तादृशज्ञानसिद्धयर्थ विचारस्यावश्यकत्वात् / / न च ब्रह्मणः स्वप्रकाशत्वेनाज्ञातत्वाभावाज्जिज्ञासाऽसम्भवः ? स्वरूपप्रकाशस्याज्ञानाविरोधेन जिज्ञासोपपत्तेरिति / 1. छा० उ० 6-8-7 / 2. बृ० उ०१-४-१०। 3. मर्शतः-पा० /