________________ सटीकाद्वैतदोपिकायाम् / श्रीमद्गुरुपदद्वन्द्वध्याननिधूतकल्मषः / कुर्वे तदाज्ञयाऽद्वैतदीपिका भेदभेदिनीम् // 5 // साक्षिविवेकः तत्रश्रेयान् स्वधर्मो विगुणोऽपि यस्मादित्यब्रवीत् पार्थसुहृत्सुरेशः। तस्मादहं साक्षिविवेकमादौ गुरुप्रसादात् प्रकटीकरोमि // 6 // यावत् / निर्वाणविभवयोर्मोक्षाभ्युदययोरालयं कारणम् / गीर्वाणेन्द्रसरस्वतीसंज्ञकस्य गुरोश्चरणं शरणं व्रजामीत्यर्थः // 4 // ग्रन्थकरणसामर्थ्यनिदानं प्रदर्शयन् चिकीर्षितं प्रतिजानीते-भो मदिति / गुर्वाज्ञयैवायमारम्भः, न ख्यात्याद्देशेनेत्याह-तदाज्ञयैवेति / अद्वैतदीपिकाम्--निरस्तोपप्लवप्रत्यगब्रह्मैक्यप्रकाशिकाम् / इयश्चान्वर्थसंज्ञवेत्याह-भेदभेदिनीमिति / निखिलभेदनिराकरणेऽद्वैतात्मतत्त्वप्रतिपादने पटीयसीमित्यर्थः / / 5 / / उक्तविशेषणविशिष्टग्रन्थकरणप्रतिज्ञयाऽस्मास्वहङ्कारबुद्धिर्न कर्तव्येति द्योतयन् प्रथमपरिच्छेदप्रतिपाद्यमर्थमाह-तत्र श्रेयानिति / यस्मात् परमहंसानामात्मविचारः परमो धर्मः, यस्माच्च "श्रेयान स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात्" इति श्रीकृष्ण एव वैगुण्येऽपि स्वधर्माचरणं श्रेय इत्याह तस्माद्यथामति मननात्मकस्वधर्मरूपामद्वैतदीपिकां कुर्व इत्यर्थः / एवश्वास्यां कृतावन्येषां वैगुण्यबुद्धावप्यर्थवानेव ममायमारम्भः पाण्डित्यप्रकटनभावस्यानुहेश्यत्वादिति भावः / तत्रापि "त्वम्पदार्थविवेकाय संन्यासः सर्वकर्मणामि''त्यादि. वचनात्त्वम्पदार्थविवेकोदेशेन च संन्यासस्य कृतत्वात् सर्वेषामप्यहमनुभवप्रसिद्धत्वाच्च त्वंपदार्थस्य तद्विवेक एव प्रथमं क्रियत इत्याह-अहं साक्षिविवेकमिति / तत्राद्वैतदीपिकायामादौ प्रथममहं साक्षिविवेकं प्रकटीकरोमीत्यन्वयः / अहमोऽहमनुभवविषयाद् दुःखादिधर्मिणः सकाशात् साक्षिणश्चिद्रूपोदासीनजीवस्वरूपस्य विवेकं भेदं गुरुप्रसादबलेन व्यक्तीकरिष्य इत्यर्थः // 6 // 1. स्य धर्म-मु० पा० / 2 अ. 35 श्लो० /