________________ प्रथमः परिच्छेदः गुरोवन्दनम् यत्पादरेणुकलिलं सलिलं निपीय मूकोऽपि मूकयति पण्डितमण्डलानि / सद्भागधेयममितस्वपवप्रबोध निर्धूतमोहविभवं गुरुमानतोऽस्मि // 3 // दीक्षागुरोर्वन्दनम् कल्याणगुणसम्पूर्ण निर्वाणविभवालयम् / गीर्वाणेन्द्रसरस्वत्याश्चरणं शरणं भजे // 4 // सत्यानवधिप्रबोधवपुषमिति / सत्यभूतो निरवधिकोऽपरिच्छिन्नः प्रबोधो वपुः स्वरूपं यस्य तमित्यर्थः। अनवधित्वमुपपादयति-भूमानमिति / 'यत्र नान्यत् पश्यति"" इत्यादिवाक्यादद्वितीयसुखस्यैब भूमत्वाभिधानादपरिच्छिन्नत्व मित्यर्थः। आशा. स्महे / अभीष्टफलसिध्यै ध्यायाम इत्यर्थः / स्वान्ते--हृदि / नन्वद्वितीय आत्मतत्त्वे कथं ध्यातृध्येयभाव इत्याशक्य श्रीनृसिंहाकारविग्रहवतः परमेश्वरस्य कल्पितभेदेन ध्येयत्वमित्यभिप्रायेणाह-श्रीनरसिंहमिति / अग्रहवताम् / मूढानां दूरं दुर्विज्ञेयम् / सतां--विवेकिनामन्तिकम् , प्रत्यगात्मतया भातम् // 2 // एतादृशमात्मतत्त्वं यत्प्रसादादवगतं तान् गुरून् प्रणमति-यत्पादेति / यस्य श्रीगुरोः पादलग्नरेणभिः कलिलं कर्द मिलं सलिलं पीत्वा तत्पानात् पूर्व मूर्योऽपि पश्चात् प्रज्ञावतां सदसि सर्वोत्कर्षेण व्यवहरतीत्यर्थः। तं गुरुमिति द्रष्टव्यम् / सद्भागधेयम्--सतां विवेकवैराग्यादियुक्तानां प्रत्यक्षभूतं परदैवतम् / अमिते अपरिच्छिन्ने स्वपदे स्वस्वरूपे ब्रह्मणि प्रबोधोऽप्रतिबद्धसाक्षात्कारो यस्य तम्। तत्र लिङ्गमाह–निधूतमोहविभवमिति / निःशेषं नष्टो मोहस्तद्विभवश्व रागद्वेषादिर्यस्य तं जगन्नाथाश्रमं गुरु त्रिविधकरणैर्नमामीत्यर्थः // 3 // इदानीं गीर्वाणेन्द्रसरस्वतीसंज्ञकं मन्त्रगुरुं प्रणमति-कल्याणेति / कल्याणगुणैः शान्त्यादिगुणयुक्तः शिष्यैः सम्पूर्ण परिवृतम् , सेवितमिति 1. छा० उ०७-२४-१।