________________ सटीकाद्वैतदीपिकायाम परमेश्वरप्रसादाधीनमेव ज्ञानैश्वर्यादिशक्तिमत्त्वमवगम्यते / ततश्च स एव स्वेच्छो. पात्तश्रीनृसिंहाकारलीलाविग्रहोपलक्षितो मुमुक्षुभिरुपासनीयः। यस्मात् “यं सर्वे देवा नमन्ति मुमुक्षवो ब्रह्मवादिनश्च"" इति श्रुतेरिति द्योतयन् तमेव निरतिशयज्ञानेश्वर्यसम्पन्नपरिपूर्णसत्यज्ञानानन्दस्वरूपं परमात्मानं पुनरपि प्रार्थयतेयस्येति / यद्वा यथा "सर्वेभ्यः कामेभ्यो दर्शपूर्णमासाविज्येते"२ इति सर्वकामोदेशेन चोदितयोर्दर्शपूर्णमासयोरावर्तितयोस्तत्तत्फलहेतुत्वम् एवं परमात्मस्मरणमपि "स्मृते सकलकल्याणभाजनं यत्र जायते” इत्यादिवचनात् सकलकल्याणहेतुभूतमावर्तितं सद्वाग्देव्यादिप्रसादलभ्यमपि कल्याणं सावयिष्यतीत्यभिप्रायेण तमेव भूमानं चेतसि सन्निधापयति–यस्येति / / यस्य भूम्नः आज्ञातिलचनेऽतिभीता ब्रह्मादयो लोकनाथाः प्रत्यह स्वस्वकार्येषु वतेन्त इत्यर्थः / तदुक्तं श्रीभगवता ___ लोकानां लोकपालानां मद्भयं कल्पजीविनाम् / ब्रह्मणोऽपि भयं मत्तो द्विपराधपरायुषः॥ इति / ननु ब्रह्माद्यानन्दतारतम्यस्य विषयतरतमभावाधीनतया विषयजन्यत्वं वक्तव्यम् / तथा च नित्यपरमानन्दाभावेनात्मनस्तद्रूपत्वायोगात् तत्प्राप्तिरपुरुषार्थ इत्याशक्य "आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते"५ इत्यानन्दस्यैव जगत्कारणत्वेन निर्धारितत्वात् तस्योत्पत्त्ययोगाद् ब्रह्माद्यात्मस्वरूपानन्दस्यैव तादृशविषयजन्यान्तःकरणवृत्तितारतम्याधीनाभिव्यक्तितारतम्यमात्रम्, “एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति"६ इति श्रुतेरित्यभिप्रायेणाह-यस्यानन्दशतांशभागिन इति / यस्य परमात्मनः स्वरूपभूतपरमानन्दशतांशाभिव्यक्तिमन्त इन्द्रादयो निवृताः कृतार्था वयमित्यभिमन्यन्त इत्यर्थः / षष्ठी च राहोः शिर इतिवद् द्रष्टव्या। आनन्दरूपस्यापि प्रपञ्चवदसत्यत्वे जडत्वे वाऽपुरुषार्थत्वमिति तस्य सत्यज्ञानादिवाक्यसिद्धसदादिरूपत्वमाह-तं 1. नृसिंहोत्तर० 2-4 / 2. जै• न्या० 4-3.10 / 3, वि• मु० 17-17 / 4. भूमा ब्रह्म, भूमासंप्रसादादिति न्यायात् / 5. तै० उ. 3 प्र० 6 / ख.९ / क. / 6. बृ० उ० 4-3-32 /