________________ प्रथमः परिच्छेदः स्वेष्टदेवताध्यानम् यस्याज्ञावशवर्तिनोऽनुदिवसं ब्रह्मादिलोकाधिपा यस्यानन्दशतांशभागिन इमे शक्रोदयो निर्वृताः / तं सत्यानवधिप्रबोधवपुष भूमानमाशास्महे स्वान्ते श्रीनरसिंहमग्रहवतां दूरं सतामन्तिकम् // 2 / लक्षितब्रह्मादिदुर्जयपापिष्ठासुरसहस्रसंहर्तृत्वं परमेश्वरस्यैव स्वेच्छोपात्तलीलाविग्रहस्य सम्भवतीति भवत्येतदपि तटस्थलक्षणम् / अनेन पापफलप्रदत्वमुक्तम् / अन्यदपि तटस्थलक्षणमाह-निखिललोकनुमङ्गलानामालय इति / निखिललोकानां हिरण्यगर्भादिसर्वजन्तूनां यानि सुकृतफलानि तेषामालयो हेतुर्दातेति यावत् / सर्वसुकृतफलप्रदत्वं परमेश्वरस्यैवेति भवत्येतदप्युपलक्षणम् / तदुक्तम् अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः / ईश्वरप्रेरितो गच्छेत् स्वर्ग वा श्वभ्रमेव वा // इति / "फलमत उपपत्तेः” इति च / __ आलयशब्दस्य नित्यपुल्लिङ्गत्वादालयो वपुरिति न विरुध्यते / प्रायश्चित्तादिकतणां पापक्षयहेतुरपि परमेश्वर एवेत्याह -पुण्यमिति / पाक्नं शोधकमिति यावत् / यद्यप्याद्योपलक्षणेन सामान्यतः सर्वमुपात्तम् , तथापि ब्राह्मणपरिव्राजकन्यायेन पृथगभिधानमिति न पुनरुक्तिदोषः।। ___अत्रोक्तलक्षणलक्षितं ब्रह्म विषयः / निरतिशयसुखरूपतदवाप्तिः परमप्रयोजनम् / अर्वाचीनकुतर्कोत्थशङ्कानिवृत्तिरवान्तरप्रयोजनम् / तत्कामोऽधिकारी। यथायोग सम्बन्धोऽपि द्रष्टव्यः // 1 // - ननु हिरण्यगर्भादेरपि जगत्कारणत्वं प्राणिकर्मफलदातृत्वं च श्रूयते 'विश्वस्य कर्ता भुवनस्य गोप्ता'3 इत्यादौ / तत्कथं परिपूर्णस्येश्वरस्य विश्वविवाधिष्ठानत्वं निखिलमङ्गलायतनत्वं चेति शङ्कायाम् ‘यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्म।"४ इत्यादिशास्त्रपर्यालोचनया हिरण्यगर्भादीनामपि 1. म. भा. वन० 30-28 / 2. ब्रह्मसूत्रम् 3-2.38 / 3. मु० उ० 1-1-1 / 4. श्वे० उ० 6.18 /