________________ सटीकाद्वैतदीपिकायाम् मूलकर्तुमङ्गलम् यस्मादभूदभवनानुभवात् सुखाब्धे विश्वं मरीचिमरुवारिरसं मुरारेः। तस्यालयो निखिललोकसुमङ्गलानां पुण्यं वपुः प्रकटमस्तु ममासिंहम् // 1 // प्रारिप्सितस्य प्रकरणस्याविघ्नपरिसमाप्तिप्रचयगमनाभ्यां . शिष्टाचारपरिपालनाय च प्रकरणप्रतिपाद्याद्वितीयात्मतत्त्वस्य चेतस्याविर्भावप्रार्थनालक्षणं मङ्गलं कुर्वन्नर्थात् प्रकरणस्य सम्बन्धाधिकारिविषयप्रयोजनानि दशयतियस्मादिति / अर्घसिंह तस्य वपुः स्वरूपं मम प्रकटमस्त्विति सम्बन्धः / मायोपाधिक बिम्बप्रतिबिम्बात्मकमखण्डचैतन्यं बिम्बभावेनेश्वररूपम् / तदिदमुक्तमर्धसिंहमिति / अर्धेन बिम्बरूपेण सिंहमीश्वराकारमित्यर्थः। अर्थाच्चार्धेन प्रतिबिम्बरूपेण नृशब्दवाच्यं जीवरूपमिति सिद्धयति / तथा च श्रुतिः- एष उ एव हि सर्वत्र सर्वदा सर्वात्मा सिंहोऽसौ परमेश्वगे ऽसौ हि सर्वत्र सर्वदा सर्वात्मा सन् सर्वमत्ति नृसिंह एवैकल'' इति / तस्येति / तच्छब्दापेक्षितमथ स्वरूपतटस्थलक्षणाभ्यां दर्शयति- यस्मादिति / न विद्यते भवनं सत्ता अनुभवः स्फुरणं च यस्मादन्यस्य, सोऽभवनानुभवः अद्वितीयः सच्चिद्रप इति यावत् / तस्मात् सुखाब्धेरपरिमितानन्दादिति यावत् / अनेन सत्यज्ञानानन्दात्मकत्वं ब्रह्मणः स्वरूपलक्षणमुक्तम् / तटस्थलक्षणमाह-विश्वं यस्मादभुदिति / उत्पत्तिस्थितिसंहारहेतुत्वेनाभिन्ननिमित्तोपादानत्वं तटस्थलक्षणमित्यर्थः। ननु ब्रह्मण उपादानत्वे मृदादिवद्विकारित्वेन चिदानन्दरूपत्वं न स्यादित्या. शक्य विश्वपरिणामिमायाया एव विकारित्वम . ब्रह्मणस्तु मायामयजडप्रपञ्चसत्तास्फूर्तिरूपतयाऽधिष्ठानत्वेनोपादानत्वमिति न निर्विकारत्वक्षतिरित्यभिप्रत्य विश्वस्यानिर्वचनीयत्वमाह-मरीचिमरुवारिरसमिति / मरीचियुक्तमरुभूमौ कल्पितं यद्वारि तस्य रसः सत्ता तादृशो रसो यस्य तत्तथा। स्वतः सिद्धलक्षणमध्यधिष्ठानसत्तया सद्वद्भातीति यावत् / तटस्थलक्षणान्तरमाह-मुरारेरिति / मुरशब्दोप 1. नृ. उ.४।