________________ * श्रीगणेशाय नमः * श्रीनृसिंहाश्रमविरचिता अद्वैतदीपिका श्रीनारायणाश्रमविरचिताद्वैतदीपिकाविवरणाख्यटीकासहिता यज्जिज्ञासा यज्ञदानादिभिः स्याच्छत्या मत्या चिन्तया यत्प्रबोधः। यस्मिन् बुद्धे बाध्यतेऽनर्थमूलं तं भूमानं भावये स्वात्मरूपम् // 1 // चेतश्चापलमिन्द्रियार्थविषयं त्यक्त्वा भजस्वाभयं संसारार्णवतारकं नरहरेः पादाब्जरेणुप्लवम् / यो ध्यातो दितिजेन्द्रबालकमधः सिन्धोर्गतं पर्वत राक्रान्तं सितमुग्रभोगिभिरनायासेन पारेऽकरोत् // 2 // यत्पादसेवा वितनोति पापं पुण्यं रिपु मित्रमनेकमेकम्। अणुं महान्तं तमचिन्त्यवृत्तं श्रीनारसिंहं गुरुमानतोऽस्मि // 3 // अबोधवार्तापि न यद्विनेयेष्वथाप्यबुद्ध जगदेव येन। शुद्धस्वरूपामलबोधबाधात् प्रबोधपूर्वाभिधमानतस्तम् // 4 // गणेशान प्रणौमि . त्वां गुणान् भणितुमक्षमः / यत्ते प्रसादाद् वागीशशर्वाद्याः सफल क्रियाः // 5 // मातर्नमामि तव वाणि पदारविन्दं तीर्थप्रभेदपरिलब्धनिजानुभावम् / गीर्वाणदारकबरीभ्रमरीकुलाढ्यं विद्यामयामलमनोज्ञपरागपात्रम् // 6 // अद्वैतदीपमनवद्यपरात्मबोध ___ भासा भवप्रमुखमूलतमः प्रमोषम् / सम्प्राप्य दुर्बलदृशोऽपि हि मामकीनाः श्रेयो भजन्त्विति समुल्लसति प्रयत्नः // 7 //