________________ सटीकाद्वैतवीपिकायाम् सुखत्वेन च वस्त्वन्तरपरिच्छिन्नस्य निन्दितत्वाच / न च यत्रेति विषयसप्तमी, अन्यत् कर्तृ यन्न पश्यति शृणोति विजानाति वा स भूमेति वाक्यार्थः किं न स्यादिति वाच्यम्, प्रमाणनिषेधे तदभावप्रसङ्गात् / कर्तृनिषेधे चात्मैकत्वमिति 'मदिष्टसिद्धिः / न च दुर्विज्ञेयत्वमात्रमत्र प्रतिपाद्यम्, तस्यापदार्थवादपाक्यार्थत्वात् / त्वदभिमतब्रह्मणः पामरधीविषयत्वेन दुर्विज्ञेयत्वाभावाच / न हीश्वरः शरीरी शङ्खचक्रादिमान् हरिरिति श्रुत्वा पामरा अपि विप्रतिपद्यन्ते। भेदे च विभुमात्रे तस्मिन् यो वै भूमेति भूम्नः सुखत्वप्रतिपादनं न ब्रह्मविषयं स्यात् / काला सप्तम्या कर्मणो निर्दिष्टत्वादन्यदिति कतृपरम् / तथा चान्यत्कर्तृ यन्न पश्यतीत्यादिवाक्यार्थे भेदप्रमाणनिषेधानवगमानाद्वैतसिद्धिरित्याशङ्कयाह-न च यत्रेति / हेतुमाह प्रमाणेति / अयमर्थः-यत्र नान्यत् पश्यतीत्यत्र नञः किं धातुनाऽन्वयः, प्रत्ययेन वा, अन्यदित्यनेन वा ? प्रथमद्वितीययोभूग्नि प्रमाणप्रमानिषेधेन तदसिद्धिप्रसङ्गादिति / अत्र भावकर्तृसाधनेन प्रमाणपदेन प्रमाप्रमात्रोहणमिति द्रष्टव्यम् / तृतीयं दूषयति-कर्तृनिषेध इति / भूमानं यत्परम्पश्यति तदन्यन्नेत्युक्त जीवेश्वरभेदनिरासेनात्मैकत्वसिद्धिरित्यर्थः / नन्वस्य वाक्यस्येश्वरदुविज्ञेयत्व. परत्वान्नोक्तविकल्पावकाश इत्यत आह-न च दुर्विज्ञेयत्वमात्रमिति / प्रधानपदार्थस्यैवेतरपदार्थसंसृष्टस्य वाक्याथेत्वादन च तद्वाचकपदाभावान्न तस्य वाक्याथेत्वम्, लक्षणा च न न्याय्येत्याह-तस्येति / ___किश्च, प्रमाणाभावप्रयुक्तमीश्वरस्य दुर्विज्ञेयत्वमुत मेयस्वभावप्रयुक्तम् ? आद्येऽनिर्वचनीयत्वापातेन घटादितुल्यतया श्रुतिप्रतिपाद्यत्वासम्भव इत्यभिप्रेत्य, द्वितीये प्रत्यग्भिन्ने साकारे लोकप्रवादसिद्ध ब्रह्मणि प्राकृतानामप्यसम्भावनाद्यनुदय इत्याह-त्वदभिमतेति / ___ न चाशुद्धचित्तसाक्षात्कारायोग्यत्वं तदर्थः, नान्यच्छ्रणोतीत्यादिवैयर्थ्यप्रसङ्गात् / त्रिशूलादिचिह्नब्रह्मणोऽपि तत्सत्त्वेन भेदिनां भूमवाक्यार्थनिर्णयाभाव 1. सदिष्ट मु० पा० / 2. दिबाहुः इति पा० /