________________ 248 सटीकाद्वैतदीपिकायाम अनुपलब्धौ सामग्रयाः प्रतिबन्धकत्वम् / ___ तुरगादौ वेगेन गच्छतः पनसत्वादिस्मृतिमतो धर्मीन्द्रियसन्निकर्षे समानेऽपि कस्यचित् ज्ञानं कस्यचिन्नेति। एकेन्द्रियग्राह्याणामपि कस्य चित्सामग्रयाकस्यचित्प्रतिबन्धश्च / अनुभवेऽपि प्रमुष्टतताकस्मृतिवदितरस्मरणोपपत्तेश्चाप्रयोजकम् / तस्मादुक्तलिङ्गद्वयाभावे स्मरणमभावस्य / अन्यथा संशय एव / यदि च प्रागभावोऽपि न कारणम् संशयनियमोऽप्यदृष्टादेव, अर्थे च स्मर्यमाणत्वनियमस्तर्हि "देवदत्तः प्रातःकालीने सर्वतोऽवलोकिते गृहे वर्तमानाभावप्रतियोगी तदानीं गेहनिष्ठतत्तुल्यस्मरणसमानकालोनस्मरणाविषयत्वेसति विषयविशेषत्वात्, संप्रतिपन्नवत्" इत्यस्तु। ___ कस्य चिदिति / वृक्षविशेषस्येत्यर्थः / एकेन्द्रियग्राह्येष्वपि कस्य चित् ज्ञानसामग्रया कस्य चित् ज्ञान प्रतिबध्यते, किमु वक्तव्यं भिन्न न्द्रयग्राह्ये वित्यभिप्रे. त्याह-एकेन्द्रियेति / एवमस्मरणमप्यनुपलम्भे न लिङ्गमित्याह-अनुभवेऽपीति / तद्विरुद्धपदार्थवत्तया स्मर्यमाणत्वादित्यादि लिङ्गद्वयाभावेऽप्यभाव निश्चयः स्मृतिरेव / तस्या अप्यभावे संशय एवेत्युपसंहरति--तस्मादिति / प्रातर्गजाद्यभावस्य नुमेयत्वेऽपि न सौषुप्तिकदुःखाभावस्य तदिति वक्तपूर्वोक्ताप्रयोजकत्वबीजाभावमङ्गीकरोतियदि चेति / पिपीलिकादिसंशयनियम इत्यर्थः / - अर्थे चेति / अनुभूत इति शेषः / देवदत्तः प्रातः कालीनेऽवलोकिते गृहे सर्वत्र वतमानाआवप्रतियोगी प्रातःकालीनगेहनिष्ठा देवदत्ततुल्या ये स्तम्भादयस्तस्मरणैककालस्मरणाविषयत्वे सति उपेक्षणीयविषयातिरिक्तित्वात् बाह्यवृक्षवदित्यनुमानवाक्यार्थः। समयान्तरे देवदत्तस्य गृहे सत्त्वेन बाधपरिहाराय-प्रातः कालीन इति विशेषणम् / गृहैकदेशे देवदत्तसत्त्वेऽपि तन्निष्ठाभावप्रतियोगित्वसंभवेनार्थान्तरतावारणाय-सर्वत इति / सर्वत्रेत्यथः। अनवलोकितगृहे देवदत्तस्य सर्वत्र बाधपरिहाराय-वलोकित इति / गेहनिष्ठोपेक्षणीय विषयेषु व्यभिचारवारणाय-विषयविशेषत्वादिति / स्तम्भादौव्यभिचारवारणाय-स्मरणाविषयत्वे सतीति / अनुमानकाले देवदत्तस्यापि स्मर्यमाणत्वादसि. द्धिवारणाय गेह निष्ठतत्तुल्यस्मरणकालीनेत्युक्तम्। गेहपदं च सर्वतोऽवलोकितगेहपरम्। तथा च गेह निष्ठेऽपि गेहानवलोकनप्रयुक्तस्मरणाविषये न व्यभिचारः। समयान्तरे गेह निष्ठस्तम्भादिभिः सह स्मर्यमाणत्वादसिद्धिवारणाय-तदानीमित्युक्तम् / / स्वापकालीनदुःखाभावे पूर्वोक्तलिंगद्वयमिदश्च नास्तीत्याह-न चेति /