________________ प्रथमः परिच्छेदः 249 सुषुप्तीदुःखाभावे पूर्वोक्तहेतुद्वयस्थापनम् / न च प्रकृते सुषुप्तिकालीनदुःखविरोधिस्मरणमस्ति / न वा दुःखं सुषुप्तिकालीनात्मनिष्ठाभावप्रतियोगि अन्यत्रवर्तमानत्वादित्यनुमानम् / तदभावस्य तत्र सत्वेऽपि सकलदुःखाभावस्य तवृत्तित्वासिद्धेः / “सुखमहमस्वाप्सम" इति ज्ञानस्य सकलदुःखाभावविषयकत्वस्यैव वक्तव्यत्वात् / एकदुःखवति दुःखाभावे सुखारोपादर्शनात् / नापि स्मरणं, पूर्व तदनुभवाभावात् / कालविशेषनिष्ठसकलज्ञानाभावज्ञानं विना सुषुप्तित्वज्ञानासंभवाच्च / न हि पूर्वकालस्प सकलज्ञानाभाववत्त्वं केन चिदनुभवं विना ज्ञातुं शक्यते / न च सकलज्ञानाभावादेः किञ्चिल्लिङ्गादिकमस्ति / उदासीनपदार्थज्ञानानां नियमेन स्मरणाजनकानामभावस्यानुमातुमशक्यत्वात् / व्यवहाराभावस्य ज्ञानाभावानियतत्वात् / तस्यापि दुर्ग्रहत्वात् / करणव्यापाराभावस्य प्रागसिद्धः दुःखा दुःखविरोधीत्युपल झणं दु.खतुल्यविषयकस्मरणमपि नास्तीति नेदमप्यनुमानमित्यर्थः / प्रतियोगिनोऽन्यत्र वर्तमानत्वलिङ्ग दूषयति-नवेति / दुःखम् अन्यकालीनं दुःखमित्यर्थः / सुषुप्तौ दुःखसत्त्वेऽपि कालान्तरीयदुःखाभावस्यापि संभवान्नानेन सकलदुःखाभावसिद्धिरित्याह-तदभावस्येति / माऽस्तु सकलदुःखाभावसिद्धिरित्यत आह-सुखमह मिति / एतस्यानुमितित्वायोगेन स्मृतित्वेऽपि दुःखाभाव. विषयतया तत्स्मृतित्वमेव किन्न स्यादित्यत आह-नापीति / स्वापे दुःखाभावानुभवायोगेन तस्मरणस्याप्ययोगादित्यर्थः / सुषुप्तिकालीनोऽहं सकलदुःखरहित इति पक्षविशेषणमपि दुर्घहमित्याह-कालविशेष इति / सकरज्ञानाभावः प्रत्यक्षेणैव ज्ञायत इत्याशङ्कय तस्य वर्तमानमात्रग्राहकत्वान्मैवमित्याह-न हीति / अनुभव विनेति / नित्यसाक्षिरूपानुभवं विनेत्यर्थः / अस्तु तर्हि रिङ्गन तदगमस्तत्राहन चेति / किं स्मरणाभावी ज्ञानाभावे लिङ्गमुत व्यवहाराभावः किं वा सामग्रथभावः ? नाद्यः / उपेश्यज्ञानाभावासिद्धेरित्याह-उदासीनेति / न द्वितीयः / मौनिनां व्यवहाराभावेऽपि ज्ञानसत्त्वादित्यभिप्रेत्याह-व्यवहारेति / स्वापे व्यवहाराभावज्ञानायोगादपि न तल्लिङ्गमित्याह---तस्यापीति / तृतीये सामग्रथभावः किं कार्याभावगम्य उत करणव्यापाराभावगम्यः ? / नाद्यः / परस्पराश्रयात् / अत एव न द्वितीय इत्याह -करणेति / दुःखाभावानुमितिमंगीकृत्यापि तस्याः सुखाकारत्वमनुपपन्नमि 32