________________ 247 प्रथमः परिच्छेदः अनुमानपक्षे प्रत्यक्षानुभवाभावानुमानपूर्वकं गजाभावानुमानम् / त्वयाऽप्यननुभूयमानविशेषणज्ञानस्य पूर्व कल्प्यत्वात् / अन्यथा प्रतियोगितव्याप्येतरविशेषणज्ञानाभावेनानुमाने लिङ्गाभावात् / अत एव क्वचित्तत्तुल्यवतया ज्ञायमानेऽपि गृहादौ पिपीलिकाद्यभाव वंशयो दृश्यते / अनुमान नियमपक्षे तन्न स्यात् / तत्रापि तलिङ्गनिश्चयसंमवात / न चानुभने प्रणिधानादौ निय. मेन स्मर्यमाणत्वमपि लिङ्गविशेषणं पिपीलिकादेस्तदभावात्तत्र संशय इति वाच्यम्। देवदत्तादेरपि तदज्ञानदशायामभावज्ञानदर्शनात् / तत्र व स्मरणकलपनायामन्यत्रापि तस्तु / किं च देवदसगोचरप्रत्यक्षपागभावविरहादा सामप्रचन्तरप्रतिबन्धाद्वा विषमानेऽपि तदननुभव संभवादप्रयोजकमनुमानम् / स्वीक्रियते खलु त्वया प्रागभावनरकारणसत्वेऽपि तदिहात्कार्योत्पत्त्यभावः / ___ यत्रास्मदुक्तलिङ्गद्वयं नास्ति नापि पूर्वानुभवः / तत्राभावनिश्चयोऽपि न नेतव्य इति व्यतिरेकमाह -अत एवेति / तत्तल्यवत्तयेति / पिपीलिकादितुल्यतुष। दि. मत्तयेत्यर्थः प्रातश्चत्वरे गजाभावनिश्च यस्यानुमितित्वनियमपक्ष पिपीलिकाद्यभा वसंशयो न स्यात् / तत्तुल्यवत्तया स्मयमाणत्वे सति तद्वत्तयाऽस्मयमाणत्वलिङ्गस्यात्रापि सत्त्वादित्याह-अनुमानेति / ननु चित्तसमाधाने सत्यनुभूतस्य स्मरणयोग्यत्वमप्युक्त लिङ्गविशेषणं पिपीलिकादेश्चैतदभावान्न तदभावनिश्चय इति चेन्न / उक्तविशेषणविशिष्टलिङ्गाप्रतिसन्धानेऽपि झटिति कालान्तरे अभावनिश्चयदर्शनादित्याह -न चानुभूत इति / देवदत्ताभावस्य स्मर्यमाणत्वे गजायभावेऽपि तथैव स्यादित्याह -तत्र चेति / परमते कुत्राप्यभावानुमान न संभवतीत्याह-किं चेति / अधिकरणे प्रतियोगिसत्त्वविरोध्येवानुपलम्मोऽभावानुमापकः / न चात्रानुपलम्भस्य तद्विरोधित्वम् / प्रतियोगिसत्त्वेऽप्युपलम्भप्रागभावामावात्सामग्रयन्तरप्रतिबन्धाद्वाऽनुपलम्भोपपत्तेरिति भावः / तत्र प्रागभावाभावेन कार्यासंभवमाह -- स्वीक्रियत इति / प्रागभावाभावादेवोत्पन्नस्य पुनरनुत्पत्त्यङ्गीकारादित्यर्थः / / सामप्रयन्तरप्रतिबन्धादनुपरब्धावुदाहरणमाह - तुरगादाविति /