________________ 246 सटोकाद्वैतदीपिकायाम् सत्वात् / स्वापकालोनतया स्मृतिविरहस्येदानोमवगन्तुमशक्यत्वाच्च / न च तदापि सुषुप्तिकालीनदुःखाभावोऽस्तीति न व्यभिचार इति वाच्यम् / सुषुप्तिकाली नदुःखस्याभावात् / तत्कालीनत्वेन दुःखाभावस्य पूर्वमज्ञानात् / न चैवं प्रातःकालोनतया चत्वरादौ कथं गजाद्य भावानुमितिरिति वाच्यम् / क्वचिद् गजविरोधिपदार्थवत्तया स्मरणात् / क्वचित्प्रतियोगिनो देशान्तरसम्बन्धित्वज्ञानेन। तदुभयाभावे तु अभावस्मरणं क्वचित् / संभवति हि पूर्वमप्यालोकविशिष्टे देशे योग्यानुपलब्ध्याअभावा. नुभवः प्रतियोगिज्ञानमप्यभावज्ञानघलात्कल्प्यम् / लिङ्गज्ञानव्याप्तिज्ञानपरामर्शानां कल्पनातोऽभावज्ञानकल्पन एव लाघवात् // त्तत्स्मृतिविरहोऽपि दुर्विज्ञेयत्वादसिद्ध इत्याह - स्वापेति / यदुक्तं 'दुःखवत्यात्मनि व्यभिचारादिति, तत्परिहारमा गड्याह-न च तदापीति / किं तदापि सुषुप्तिकालीनं यद् दुःखं तदभावोऽस्तीत्युच्यते, किं वा सुषुप्तिकालीनो यो दुःखाभावः सोऽस्तीति ? / नोभयथापीत्याह -सुषुप्तीति / पूर्वमज्ञानादिति ! तथा च साध्याप्रसिद्धिरिति भावः / अस्मर्यमाणस्याभावाननुमापकत्वे प्रसिद्धाभावोऽपि न सिद्ध्येदिति शङ्का निराकरोति-न चैवमिति / गजावस्थानविरोधिनी गवादिसंकुलता स्मय. माणा तदभावानुमापिकेत्याह -कचिदिति / तदभावे गजस्थान्यत्र सत्त्वं स्मर्यमाणं चत्वरे तभावानुमापकमित्याह-वचित्प्रतियोगिन इति / उभयस्याप्यनुमापकस्याभावे का गतिस्तत्राह-तदुभयेति / ननु प्रातश्चत्वरं प्रविष्टेनापि तदभावाननुभवा. स्कथं सायं तत्स्मृतिरित्याशङ्कय सामग्रीसत्त्वात्तदभावोऽनुभूत एवेत्याहसंभवति हीति / तदा गजस्मरणाभावात्कथं तदभावोपलब्धिसामग्रीत्याशङ्कय तदपि कार्यबलात्कल्प्यमित्याह-प्रतियोगीति / अननुभूयमानज्ञानकल्पनमेव दोष इत्याशङ्कयानुमानपक्षेऽननुभयमानबहुकल्पनमस्तीत्याह-लिङ्गज्ञानेति / / किं चानुमानपक्षे स्मरणाभावेनानुभवाभावमनुमाय तेन गजाभावोऽनुमातव्यः / तत्रानि नानुपलम्भमात्रं प्रमेयाभावे लिङ्ग व्यभिचारात् / किं तु योग्यत्वे सति / योग्यत्वं च प्रतियोगितद्व्याप्येतरतदुपलम्भकसमवधानम् / तथा च गज. स्वादिविशेषणज्ञानस्यापि तदुपलम्भकत्वात्तदपि प्रातस्त्वया कल्प्यम् / तथा च प्रतियोगिज्ञानं दुर्वारमित्याह- त्वयापीति /