________________ 244 सटोकातदीपिकायाम दुःखविरोधित्वम् / दुःखात्यन्ताभानत्वेनार्थान्तरत्नात् इति चेन्न / निरनयनसुखपदवाच्याभेदस्य परमप्रेमास्पदताप्रयोजकरूपाभेदस्य वा साध्यत्वात् / न च बाधः। सुखव्यक्तरात्मनश्च भेदमिथ्यात्वस्यानेनैव सिद्धेः॥ आत्मनः सुखाभेदे सौपुप्तिकानुभव यानि प्रामाण्यनिरूपणम् / तथाऽऽत्मनः सुखत्वे "सुखमहस्वाप्सम्" इति परामर्शकल्प्यसौषुप्तिकानुभवोऽपि मानम्। तथा हि-सर्वानुभवसिद्धस्ता. वदयं परामर्शः स च सुखविषय एव / दुःखाभावस्य सुषुप्तौ सतोऽपि प्रतियोगिज्ञानाभावेनानुभवितुमशक्यत्वात् / अननुभूते च परामर्शायोगात् / ननूस्थितस्य स्वापकालीनदुःखाभावानुमितिरियं, न परा. मर्शो, न वा सुखविषय, इति चेन्न / प्रसिद्ध परामर्शतुल्यत्वात्सुख. व्यतिरेकाभावात् तत्र व्यतिरेक व्यभिचारपरिहाराय / न च निरक्यवसुखपदवाच्यसुखत्वभेदोऽप्य त्मन्यस्तीति व्यतिरेकव्यभिचारस्तदवस्थ इति वाच्यम् / वृत्तिविशेषानुगतात्मस्वरूपसुखस्यैव सुखानुगतबुद्धिविषयतया सुखत्वरूपत्वेन तस्य तद्भेदाभावादिति द्रष्टव्यम् / साध्यान्तरमाह-परमेति / सुखसमवायित्वादेस्तप्रयोजकत्वस्य निरस्तत्वात्सु खमेव तत्प्रयोजकमिति तदभेद एव सिध्यतीति भावः। ममसुखम्' इत्यादिभेदप्रत्यक्षविरुद्धमनुमानमित्याशङ्कयाह-न चेति / सुखा. हङ्कारभेदस्य मयाप्यङ्गीकारादित्यर्थः / हेत्वन्तरमाह-सुखव्यक्तेरिति / तर्कोपोद्बलितानुमानस्यैव प्रत्यक्षबाधकवादित्यर्थः // न केवलं प्रत्यक्षाविरोधः / कि तु तदपि तत्र मानमित्याह -- तथेति / सौषुप्तिकदुःखाभावविषय एवायं परामर्श इत्याशङ्कयाह-स चेति / सुषुप्तौ दुःखस्मरणायोगेन तदभावानुभवाभावात्तत्परामर्शानुपपत्तेरिति हेतुमाहदुःखाभावस्येति / सुप्तौ सुखानुभवाङ्गीकारे तद्भङ्गप्रसङ्गात् , तदनुभवाभावे तत्परामर्शस्याप्यनुपपत्तेः "सुखमस्वाप्सम्" इत्युत्थितस्य दुःखाभावानुमितिरेवेति शङ्कते - नन्विति / अनित्यज्ञानोपरमरूपसुषुप्तेः नित्येन सुखानुभवेन विरोधाभावा. तदधीनसुखपरामर्श एघायमित्यभिप्रेत्याह--न प्रसिद्धति / सुखविषयत्वेन संमतपरामर्शतुल्यत्वादित्यर्थः। सुप्तौ सुखत्याभावात्कथं तद्विषयत्वमस्येत्याशङ्कयाऽनित्य