SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ प्रथमः परिच्छेदः 243 सुखतत्साधनान्यतरभेदादिविषयत्वांशे बाधिततया सुखमात्रविषयत्वात् / "अहं स्वर्गी स्याम्" इति कामनाया इव "मम सुखं भूयात्' इत्यादिकामनाया अहमनुभवगोचरातिरिक्तात्मस्वरूपसुखविषयत्वाच / न च सुखमात्रस्य पुरुषार्थत्वे पुरुषान्तरसुखमपि तथा किं न स्यादिति वाच्यम् / सुखदयाभावात् / पुरुषा. न्तरीयत्वस्य चापुरुषार्थत्वात् / आत्मा सुखरूप इत्यस्य तात्पर्यनिरूपणं नन्वात्मा सुखरूप इत्यत्र न 'मुखत्वाश्रय'इति प्रतिज्ञार्थः केवले आत्मनि तदभावात् / अत एव न सुखत्वविशिष्टाभिन्न इत्यर्थः। केवलस्य सुखस्य सुखत्वविशिष्टाभेदे केवलेऽपि तत्वसङ्गात् / नापि दुःखान्यत्वं साध्यं सिद्धसाधनत्वात् / नापि त्वाच्च कामनायास्तद्विषयत्वायोगात्तदनुभवो भ्रम इत्यभिप्रेत्याइ-न च सुखमिति / कामनाया अयोग्यविषयत्वेनाप्यनुभवे निदर्शनमाह-अहमिति / स्वर्गी स्यामिति कामनायास्तदयोग्याहमर्थविषयत्वानुभववदित्यर्थः। कि चाहमा तिरिक्तसुखकामना न सिद्धान्तेऽपि विरुद्धा। आत्मरूपसुखस्य तद्भेदाङ्गोकारादित्याह-ममेति / सुखात्मसंबन्धस्यापुरुषार्थत्वेऽतिप्रसङ्गः स्यादित्याशङ्कयाह-न च सुखमात्रस्येति / किं पुरुषान्तरसुखस्वरूपेण पुरुषार्थः स्यादित्युच्यते, किं वा पुरुषान्तरीयत्वाकारेण ? / आये इष्टापत्तिरित्यभिप्रेत्याह-सुखद्वयेति / द्वितीयं दूरयति-पुरुषान्तरीयत्वेति / आत्मा सुखरूपः निरुपाधिकप्रेमगोचरत्वादित्यनुमाने प्रकारान्तरेण साध्यानुपपत्तिमाशङ्कते -नन्विति / केवलात्मनीति / निर्विशेषात्मनि सुखत्वधर्माभावादित्यर्थः / अत एव-केवलवादेवेत्यर्थीः / सुखत्वविशिष्टाभेदेऽपि केवलः किं न स्यादित्याशङ्कयाह-केवलस्येति / विवक्षितसाध्ये नोक्तदोष इत्याह -न निरवयवेति / निरचयवं यत् सुखपदवाच्यं तत्प्रतियोगिकभेदाभावस्येत्यर्थः / अत्र सिद्धान्ते सावयववृत्तपि सुखपदवाच्यत्वात्तदभेदसाधने वाध इति निरवयवेत्युक्तम् / वस्तुतस्त्वेतद्विशेषणं विनापि बाधितसुखपदवाच्यांशं विहायाबाधितस्वरूपसुखभेदाभावमादाय साध्यं सिध्यति / तथा च न बाधपरिहाराय विशेषणं किं तु सुखपदवाच्यवृत्तिभेदस्य साध्पपतिरेकस्यात्मनि सत्त्वेऽपि हेतु
SR No.032852
Book TitleAdwait Dipika Part 01
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1982
Total Pages298
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy