________________ 242 सटीकाद्वैतदीपिक याम् किंवा सुखेच्छया विषयानन्वेषणम, अथवाऽऽत्मनि प्रेम, किं वा तृप्तिः / नायद्वितीयौ / स्वरूपस्फुरणस्याविद्या. तत्काय विरोधित्वात् / न तृतीयः / अविद्यावरणेन प्रतिबद्धत्वात् / न चतुर्थः / स्वरूपस्य नास्तीत्यादिव्यवहारयोग्यताप्रतियोगित्वेन पुत्रादेश्च सुखजनकत्वभ्रमेण तदुपपत्तेः। पञ्चमरित्वष्यते / षष्ठे तूत एव परिहारः। दहनादेस्तु स्वरूपसत एव दाहहेतुत्वा वैषम्यम् / पत्तूक्तं सुखस्यात्मत्वेऽपुरुषार्थत्वप्रसङ्ग इति। तन्न। न तावदात्मस्वरूपं सुखमसुखं भवति / न च सुखमयात्मनोऽनन्य. त्वादपुरुषार्थः। भेदस्य तत्समवायस्य वा सुखतत्साधनान्यतरानन्तर्भूतस्याकाम्यतया पुरुषार्थत्वायोगात् / न चैवमात्मस्वरूप सुखमपि कामनाविरहादपुरुषार्थः। “सदाऽहंभूय सम्" इति काम नाया एव स्वरूपसुखविषयत्वात् / न च 'सुखं मे भूयात्" "सुखी भूयासं"इति भेदादावपि कामना दृश्यते इति वाच्यम्। कामनायाः विपरीतव्यवहारयोग्यतालक्षणप्रतिबन्धान भवतीत्याह--न तृतीय इति / नित्यप्राप्तेऽपि सुखेऽप्राप्तस्त्रसाधनपारतन्त्र्यादिभ्रमात्तत्साधनगवेषणेत्या-न चतुर्थेति / अहं भूयासमित्यात्मनि प्रेमास्त्येवेत्याह--पञ्चमस्त्विति / पूर्वोक्त हेतुत्रयाधीनाप्राप्तत्वभ्रमादेव तृप्तिनास्तीत्याह-षष्ठइति / वह्नाव वह्नित्वारोपस्य तत्सत्ताप्रयुक्त कार्याप्रति. बन्धकत्वाद्वैषम्यमित्याह--दहनादेरिति / चोद्यान्तरं दूषयितुमनुवदति-यत्त क्तमिति / किं सुखस्यात्मरूपत्वेऽसुखत्वापत्त्या पुरुषार्थत्वमुतात्मीयत्वाभावात् ? / नायः / तस्यैव सुखत्वेन साधितत्वादित्यभिप्रत्याह-न तावदिति / द्वितीयं दूषयति -न चेति / स्वतन्त्रकामनागोचरस्यैव पुरुषार्थत्वात्कामनायाश्च सुखतत्साधनान्यतरविषयत्वाभेदसमवाययोश्च तदन्यतरत्वाभावादित्यथः / तात्माभिन्नसुखस्यापि कामनाऽभावादपुरुषार्थतेत्याशङ्कयाह-न चैवमिति / ननु सुखकामनाया भेदादिविषयत्वस्याप्यनुभवादात्मभिन्नमेव सुखं पुरुषार्थ इति चेन्न / तव मते भेदादेः सिद्धत्वेनानुपादेयत्वादकारण.