________________ प्रथमः परिच्छेद: 241 एतेनाविद्यावरणेनाप्यानन्दप्रकाशस्यानपायान्मुक्तिसंसारयोरविशेष एवानन्दप्रकाशः स्यादिति मुक्त्यर्थिप्रवृतिनं स्यादिति निरस्तम् / इदानीं स्फुरतोऽप्यानन्दस्य 'नास्ति' 'न प्रकाशते' इति व्यवहारयोग्यताप्रतियोगितया 'अस्ति' 'प्रकाशते' इति व्यवहारयोग्यत्वाभावेन वा नष्टस्वोयसुखपदाविद्यकभेदप्रतियोगितया वा पुरुषान्तरसुखवदिच्छाविरोधितालक्षणतृप्तिरूपताभावात् / मुक्तौ तदभावेनेच्छाऽविरोधित्वादिदानी मुक्त्यर्थि प्रवृत्युपपत्तेः। एतेन वह्नौ गुञ्जाद्यारोपेऽपि वद्य चितदाहादि. वदात्मानन्दप्रकाशेऽप्रकाशमानत्वारोपेऽपि तदुषितं कार्य स्यादिति प्रत्युक्तम्। आनन्दोचित्तकार्ये विकल्पनिश्चयपूर्वकं सुखरूपत्वेऽपुरुषार्थत्वशङ्कानिरसनम् / किं तदुचितकार्य्यमविद्यानिवृत्तिः, उत नास्तीत्यादिव्यवहारविच्छेदः, किं वाऽहमनतिशयानन्द इति व्यवहारः, कत्वात्सत्त्वोद्भवस्य चोद्भावकविषयतारतम्याधीनतरतमभूतत्वात्तदधीनसुखाभिव्यक्तितारतम्योपपत्तिरिति भावः। ज्ञानानन्दयोस्तिवाभेदेऽपि जीवेश्वरवकल्पितभेदेनावरणानावरगयोः संभवाच्चैतन्याभिव्यक्तावप्यानन्दानभिव्यक्तिर्घटते इत्याह-अथवेति / विषयभोगदशायां कथं तानन्दानुभव इत्यत आह -अन्तः करणेति / स्वस्य स्वाकारवृत्तिद्वाराऽनावृतसाक्षिचैतन्याभेदे संविदभेदादापरोक्ष्यमित्यर्थः। सुखस्वरूपस्यावतत्वेऽपि तत्स्वरूपभूतः प्रकाशोऽस्त्येव / तथापि तस्ये. दानोमपुरुषार्थत्व वन्मुक्तावप्यपुरुषार्थत्वं स्यादित्याशङ्कयाह-एतेनेति / एतच्छब्दार्थमेवाह-इदानीमिति / वस्तुतः स्वरूषतया स्फुरतोऽप्यानन्दस्याप्राप्तत्वभ्रान्त्या तत्प्राप्तिकामनापूर्विका प्रबृत्तिरुपपद्यते इत्यर्थः / अप्राप्तश्वभ्रमे हेतुत्रयमाह-नास्तीत्यादि / आनन्दरूपत्वमिति कर्तृनिर्देशोऽध्याहर्त्तव्यः। हेतुद्वयेनाप्यप्राप्तप्रतीतावुदा. हरणमाह - नष्टेति / तृतीयमपि हेतुं सोदाहरणमाह-आविद्यकेति / तदभावेनेति / अज्ञानभ्रान्त्यादेरभावेनेत्यर्थः / एतेनेति / स्पष्टोऽर्थः। आनन्दप्रकासकाय मापाद्यमानं षोढा विकल्पयति-किं तदिति / सानिज्ञानस्याविद्यासाधकत्वात्तया तत्कार्यरूपेण नास्तीत्यादिव्यवहारेण चाविरोधान्नाद्यावित्याह-नाद्यद्वितीयाविति / अहमनतिशयानन्द इति व्यवहारो 31