________________ 240 सटोकाद्वैतदीपिकायाम् निरतिशयानन्दैकरसं चैतन्यमावतमनावृतं चेत्युपपद्यते / उभयस्याप्यनुभवादविरोधाच्चेति / अज्ञानं चाज्ञानान्तःकरणप्रत्यक्ष. धर्मावच्छिन्नचैतन्यातिरिक्तचैतन्यावरणस्वभावम् / उक्तले स्वसत्तायामज्ञानावरणकार्यस्य तत्सत्ताप्रकारकसंशयादेरभावात् / सुखात्मनोरक्येऽपि सुखविशेषानुभवोपपादनम् अनुभवानुरोधित्वात्पदार्थस्वभावकल्पनायाः / ततश्च तत्तद्विषयसबन्धोत्थतत्तवृत्तिकवलीकृतमानन्दं विहायैवाज्ञानमानन्दमावृणोतीति तदा सुखविशेषानुभवः सङ्गच्छते। अयमेव वृत्तेरावरणामिभः। कारण कृतवृत्तिविशेषतारतम्याच्चावरणाभिभवतारतम्यमिति वैष यकसुखतारतम्यं चोपपद्यते / अथ वा चिन्मात्राश्रयादज्ञानादनादिचिदानन्दभेदाध्यासादज्ञानमानन्दमा. वृणोति, न चैतन्यमिति व्यवस्था / अन्न:करणवृपया च विषयजन्ययाऽऽनन्दस्य चैतन्याभेदापादनाद्विषय दशायां सुखविशेषानुभवः / नेनेति तत्प्रकाशरूपसाचैतन्यमित्यर्थः / उदासीनदशायामात्मनः सुखरूपेणा वृतत्वं चिद्रपेणानावृतत्वमिति सुखविशेषाननुभवादिरुपपद्यते इत्युपसंहरति-- तस्मादिति / चन्दनादिविषयसंपकदशायां सुखाकारवृत्तेरावरणाभिभावकत्वं वक्तमज्ञानस्य न कृत्स्नचैतन्यावरकत्व मित्याह-अज्ञानं चेति / धर्माद्य वच्छिन्नचैतन्यस्त्या. वृतत्वात्प्रत्यक्षेत्युक्तम् / अज्ञानाद्यवच्छिन्नचेतन्येष्वावरणकल्पकस्य तत्कार्यस्याभावादिति हेतुमाह-उक्तेष्विति / अज्ञानादौ भावत्वादिप्रकारसंशयादिभावेऽपि विद्यमानत्वप्रकारकः स नास्तीत्याह-तत्सत्तेति / अज्ञानस्य कृत्स्नचतन्यावरकत्वस्वभाव एव किं न स्यादित्यत आहअनुभवेति / एवमज्ञान भावे सति चन्दनादिविषयसंसर्गजानत वृत्तौ सत्यां तदवच्छिनसुखात्मकचैतन्या नावृतं स्पष्टमनुभूयते इत्याह-ततश्चेति / वृत्तौ सत्यां तदवच्छिन्ने चेतन्ये आवरणसंबन्धो नेत्ययमेव वृत्तनिमित्तादावरणाभिभव इति वद्धवचनार्थ इत्याह-अयमेवेति / ननु वृत्तेरावरणाभिभवमात्र एवोपक्षीणत्वात्कथं वैषयिकसुखे तारतम्यमित्यत्राह-कारणेति / उद्भूतसत्त्ववत्तेरेवावरणाभिभाव