________________ प्रथमः परिच्छेदः 239 नन्वावतत्वानावतत्वयोधर्मभेद एव प्रयोजको, न तु धर्मिभेदोऽपीति चेन्न। सुखैकरसे भवदभिमतात्मनि धर्मभेदे प्रमाणाभावात् / ज्ञानत्वादीनां वत्तिप्रतिबिम्बितात्मधर्मत्वेन केवलात्मन्यसत्वात् / सुखाकारान्तःकरणवत्तेरविद्यानिवर्तकत्वाभावाच्च / न च विषयसम्बन्धदशायां सुखविशेष एव नेति वाच्यम् / अनुभवविरोधात्, विषयानुपादानप्रसङ्गाच्च इति चेत् / सुखात्मनोभेंदशङ्कासमाधिः - तत्र किं सुखस्यावतत्वाच्चैतन्याद् भेदः प्रतिपिपादयि. षितः, किं वा चैतन्यस्यावरणमाहोस्वित्सुखस्यानावरणम् ? / न सर्वथापि / 'नास्ति' 'न प्रकाशत' इति व्यवहारयोग्यत्वं यात्मन आवृतत्वं, तदभावोऽनावतत्वम् / ततश्चैकस्मिनप्यानन्दो नास्ति, न प्रकाशते इति व्यवहारानुभवात् तद्योग्यत्वमस्तीत्यानन्दरूपेमावतत्वम् / अहमर्थरूपं चैतन्यं नास्ति, न प्रकाशते इति व्यवहारानुभवाभावेन न तद्योग्यतेति चैतन्यरूपेणानावतत्वम् / एकार्थकव्यवहारभेदश्च वाच्यभेदादुपपन्नः। तस्मादेकमेव निरंशं दृष्टान्तवैपम्येण परिहरति-न सुखैकरस इति / एकरसेऽप्यात्मन्यवास्तवा ज्ञानत्यादिधर्माः सन्तीत्याशङ्कय तेषामप्यावरणपूर्वकवृत्तितादात्म्याध्यासद्वाराssत्मधर्मत्वात्केवलात्मन्यावरणस्यैवायोगादित्य भिप्रेत्याह-ज्ञानत्वादीनामिति / अङ्गीकृत्याप्यावरणं सुखाकारवृत्तेस्तन्निवत्तकत्वं दूषयति-सुखाकारेति / प्रामाणिकसाक्षात्कारस्यैव तन्निवर्तकत्वादिति भावः / कालविशेषे सुखविशेषानुभवो नास्ती. त्याशङ्कयाह -न चेति / उक्तानुपपत्तिपरिहाराय पूर्वपक्ष्याशयं विकल्पयति--तत्र किमिति / चैतन्यादनावृतादिति शेषः / चैतन्यस्येति / आवृतसुखाभेदादित्यर्थः / सुखस्येति / अनावृतचैतन्याभेदादित्यर्थः / ज्ञानानन्दपदयोर्वाच्यभेदेनापर्यायत्वा. भिधानात्तद्घटिताभिन्नचिदानन्दादिव्यवहारोऽपि भिद्यते / तथा चैकव्यवहार. योग्यस्यापीतरव्यवहारयोग्यत्व संभवात्तदात्मकावरणानावरणयोरेकत्राप्युपपत्तेन कोऽपि पक्षः साधयितुं शक्यते इत्यभिप्रेत्याह-न सर्वथेति / एकस्मिन्नपीति / ज्ञानानन्दयोरभेदेऽपीत्यर्थः - अहमर्थरूपचैतन्यमिति / अहमर्थोऽहङ्कारी रूप्यते दृश्यतेऽ.