________________ सटोकातदोपिकायाम 238 तस्मान्न दुःखध्वंसार्थं मुमुक्षुप्रवृत्तिरिति नित्यमेव सुखम् / अत उत्पादविनाशानुभवोऽयविषयः / अत एव नासाधारण्यम् / वैषयिकसुखस्यात्मातिरिक्तस्थाभावात् / सुखस्य नित्यत्वमुपसंहृत्य सुखविशेषाननुभवेन तद्भेदशङ्का नन्वेवमात्मन्युदासीनदशायामिव विषयसंबन्धदशायामपि विशेषो नानुभूयेत / आत्मन एकरूपत्वात् / न च सुखाकारान्तःकरणवृत्तिस्तदा विशेष इति वाच्यम् / ज्ञेयातिशयं विना ज्ञानमात्रस्याविशेषत्वात् / अथ वृत्त्या सुखाभिव्यक्तिविशेष इति चेन्न। सुखस्यात्मनः स्वप्रकाशचैतन्यतया सदाभिव्यक्तत्वात् / इतरथाऽन्यदापि तन्मात्रत्वात्सुखं न प्रकारांत। न च वृत्त्या सुखावरणतिरोधानमिति वाच्यम् / सुखस्यानावृतत्वात् / तस्य प्रतीयमानत्वनियमात् / अन्यथा तन्मात्रचैतन्यमप्यावृतं स्यात् / तयोर्भेदो वा स्यात् / एकत्रकदा विरुद्धधर्मद्वयानुपपत्तेः। सुखनित्यत्वसाधनफलमाह-उत इति ! अन्यविषय इति / अरच्छेद कवृत्तिविषय इत्यर्थः / आत्मातिरिक्तसुखाभावे कदाचित्सुखविशेषानुभवानुपपत्तिरिति शङ्कते-नन्वेवमिति / विषयवशायां स्वतो विशेषाभावेऽपि स्व विषयवृत्तिकृतो विशेष इत्याशङ्कयाह-न चेति / वृत्तिज्ञानस्यापि स्वतोविशेषाभावात् विषयकृत विशेषो वाच्यः, तथा च चन्दनादिजन्यवृत्तेरहमाकार वृत्त्यपेक्षया विशेषो न स्यादित्याहज्ञेयेति / अदृष्टविशेषजन्यवृत्तौ सत्यामेवानन्दाभिव्यक्तः कदाचिदभिव्यक्तिरेव तत्र विशेष इति शङ्कते-अथेति / सुखाभिव्यक्तरप्यात्मस्वरूपतया सदातनत्वेन कादाचित्यत्वायोगादित्याह-न सुखस्येति। आत्मरूपसुखस्य स्वप्रकाशत्वानङ्गीकारे बाधकमाह-इतरथेति / तन्मात्रत्वात् स्वप्रकाशात्ममात्रत्वादात्मातिरिक्तप्रकाशस्याप्यभावादित्यर्थः / स्वप्रकाशरूपमपि सुखं पूर्वमावृतं वृत्तिविशेष सत्यभिव्यज्यते इत्याशङ्क्याह-न च वृत्येति / सुखस्याभिव्यक्तसत्ताकत्वादाचरणायोगादिति हेत्वर्थः / विपक्षे दण्डमाह-अन्यथेति / चैतन्यस्यावृतत्वे तद्रयात्मनि कदाचित्संशयादि स्यादित्यत आह-तयोरिति / चैतन्यसुखयोरित्यर्थः / आवरणानावरणरूपविरुद्धधर्मद्वयस्य धर्मिभेदं विनाऽनुपपत्तेरित्याह –एकत्रेति / / 95 / / एकस्मिन्नपि शुक्तिशकले ज्ञातत्वाज्ञातत्वदर्शनान्न धर्मिभेदापेक्षेति शङ्कतेनन्विति /