________________ प्रथमः परिच्छेदः 235 वाच्यम् / छत्रिणः छत्रिपदलक्ष्यत्वेऽपि छत्रित्ववदनौपाधिकप्रीतिविषयतया ऽऽनन्दस्यैवात्मन आनन्दपदलक्ष्यत्वेनानन्दत्वानपायात्। आत्मनः सुखस्वरूपोपसंहारः / / तस्मादनौपाधिकप्रातिविषयो यच्चैतन्यं तदेव सुखम् / तच्च दुःखानुभवदशायामपि प्रतोयते इति न तदा प्रेमानुपपत्तिः / एतेन 'यदि चैतन्यमेव सुखलक्षणं, तदा चैतन्यस्य परेणाप्यभ्युपगमात्तदतिरिक्तस्य सिद्धांतेऽभावाच्चैतन्यं सुखमिति नाममात्रं, नार्थविशेषः' इति प्रत्युक्तम। आत्मातिरिक्तं सुखमितिवदतामप्यनोपाधिकप्रीतिविषयत्वमेव तल्लक्षणम् / आत्माऽपि चैता. दृशः / कथं नात्मा सुखं, कथं वा न परमताद्विशेषः / न चैवं सुखोत्पादविनाशानुभवविरोधः, आत्मनस्तदभावात्, "अहं सुखी' इति तस्यात्मधर्मत्वानुभवविरोधश्चेति वाच्यम् / तस्य सुखत्वनिशिष्टवृत्तिविषयत्वात् / 'अहं सुखो' इति च स्वरूपसुखस्थाहमर्थान्तःकरणसम्बन्धित्वमनुभूयते / अनित्यस्य सुखस्याभ्युपगमे मोक्षशास्त्राध्ययनविरहप्रसङ्गात् / जन्यस्य तदानीमशरीरावस्थायामसम्भवात् / परित्यागेन सच्चिदानन्दादिविशेष्यमावलक्षणयाऽखण्डार्थऽपि पर्यवसानाभ्युपगमादात्मा सदादिरूप एवेत्यभिप्रेत्याह -छत्रिण इति / हेतोरप्रयोजकत्वादिनिराकरणमुपसंहरति-तस्मादिति / चैतन्यव्यतिरेकेण सखस्याभावे सांख्यमतान्न विशेष इत्याशङ्कामपवदतिएतेनेति / एतच्छब्दार्थमाह-आत्मेति / सांख्यसंमतसुखस्यैवात्मनो भेदनिराकरणात्ततो महान्विशेष इत्यर्थः। सुखस्यात्मरूपत्वे तस्यानित्यत्वगुणत्वानुभवविरोध इत्याशङ्कयाह --न चैवमिति / उत्पत्त्याद्यनुभवस्तावदन्य विषय इत्याह -तस्योते / अहं सुखीति सुखस्याहंकार सम्बन्धमात्रमनुभूयते / अहमसुखोतिवत्, न तु गुणत्वं, तत्र तदनुभवस्यौदासीन्यात् / सम्बन्धश्च सिद्धांतेऽप्यविरुद्ध इत्यभिप्रेत्याह - अहंसुखीति / सुखस्यानित्यत्वमते किं मोक्षे सुखमेव प्रयोजकमुत दुःखाध्वंसः ? / नाद्य इत्याह-अनित्यस्येति /