________________ 234 सटीकाद्वैतदीपिकायाम विषयत्वेन वस्तुतोऽभावाच्च कल्पितभेदाश्रयजातेर्वास्तवमुखलक्षणत्वानुपपत्तेश्च / ततः सुखरूपमेव विशेषः / स एव तल्लक्षणम् / गोत्वादेरिव तत्स्वरूपम् / तच्च सुखरूपं चैतन्यमेव / ततोऽतिरिक्तस्य सुखस्यानिरूपणात, 'विज्ञानमानन्दमिति" श्रुतेश्च विज्ञानातिरिक्तस्य दृश्यतया मिथ्यात्वाच्च न सुखं विज्ञानातिरिक्तम् / न चैवं ज्ञानानन्दपदयोः पर्यायत्वमेकार्थत्वादिति वाच्यम् / तत्त वृत्तिविशेषशबलस्य तदुपहितचैतन्यस्य वा ज्ञानानन्दपदवाच्य त्वात् तत्तत्प्रवृत्तिनिमित्तभेदेनापर्यायत्वात् / प्रवृत्तिनिमित्त भेदेऽपि व्यक्त यभेदेन पर्यायत्वे प्रमेयाभिधेयादिपदानामपि पर्यायत्वप्रसङ्गात् / न चैवमानन्दपदलक्ष्यत्वादात्माऽनानन्दः स्यादिति चकारेण तत्कल्पनाऽप्यपार्था, अनुगमबुद्धेर्यक्तिविषयत्वेनैवोपपत्ोरिति सूचयति / तस्माद् व्यक्तः स्वरूपमेव विशेष इति पक्षः परिशिष्यत इत्याह --तत इति / स्वरूपविशेष एवेतरावृत्तित्वे सति तस्येतरव्यावर्तक इत्याह-स एवेति / स्वरूपस्यैव स्वव्यावर्तकत्वे दृष्टान्तमाह-गोत्वादेरिवेति / आदि पदेन प्रमेयत्वादेः संग्रहः / न च गोत्वधर्मे गोत्वतैव तव्यावतिकेति वाच्यम् / गवेतरावृत्तित्वे सति सकलगोवृत्तित्वलक्षणगोत्वताया गोतदिता ज्ञानमन्तरेण दुर्जेयत्वेनान्योन्याश्रयतापत्तरिति भावः / साधितसुखस्वरूपस्यैव पुरुषार्थत्वाय चैतन्याभेदमाह--तच्चेति / तदभेदे ऽपि प्रमाणं नास्तीत्याशङ्कयाह-विज्ञानमिति / आत्मरूपसुखस्य दृश्यत्वायोगाच्च दृग्रपत्वमित्याह--विज्ञानेति / ज्ञानानन्दयोरभेदेन तत्पदयोः पर्यायत्वापत्त्या सहप्रयोगानुपपत्तिरित्याशङ्कयाह-न चैवमिति / यथा द्रव्यात्मकघटस्याद्रव्याघटात्मकद्रव्यत्वघटत्वविशिष्टतया द्रव्यघटपदवाच्यता भेदभ्रमनिरासाय द्रव्यं घट इति सहप्रयोगश्च / तथा ज्ञानात्मकानन्दस्यैवाज्ञानाऽनानन्दात्मक प्रामाणिकवैषयिकवृत्ति विशेषविशिष्टतया ज्ञानानन्दपदवाच्यता भेदभ्रमनिरासाय च सहप्रयोगः। यथा वा दिश एकत्वेऽप्यौपाधिकभेदेन प्रार्च प्रतीच्यादिपदवाच्यता / एवमेकस्याप्यात्मन उक्तवृत्तिविशेषोपाधिप्रयुक्तभेदेन ज्ञानाननाद्यपर्यायपद्वाच्यतेत्यर्थः / प्रवृत्तिनिमित्तभेदेनैवाप-यत्वमित्येतद्विपक्षे बाधकप्रदर्शनेनोपपादयति-प्रवृत्तीति / ननु निर्विशेषात्मन्यानन्दपदशक्तेरभावात्तल्लक्ष्यता वाच्या / तथा च गङ्गापदलक्ष्यस्या. गङ्गात्ववदानन्दपदलक्ष्यस्यायनानन्दत्वं स्यादित्यत्राह-नचैवमिति / सत्यज्ञानादिपदानां गङ्गादिपदवजहल्लक्षणाऽनभ्युपगमाद्वाच्यार्थेऽनृतजडाद्यात्मविशेषण