________________ प्रथमः परिच्छेदः 233 व्यवस्था / व्यक्तिविशेष विना सखत्वमस्यैव धर्म इति नियन्तुमशक्यत्वात् प्रथमेऽपि ( स ) विशेषो न धर्मः / तत्रापि व्यवस्थापकाभावात् / व्यक्तिस्वरूपातिरिक्तधम निरूपणाच्च / सुखस्वरूपस्य विज्ञानानतिरिक्तत्वम् / / सुखानुगतबुद्ध!त्वादिविषयानुगतवुद्धेरिव स्वरूपमात्र. इच्छायाः स्वविषयासाधारणस्वरूपनिश्चयजन्यत्वान्न विशिष्टज्ञानं तत्कारणम् / विशिष्टज्ञानस्यापि संशयस्याकारणत्वात् सत्ताश्चियरूपस्यैव तस्य कारणत्वं वाच्यम् / तथा च लाघवात्तत्सत्ता निश्चय एव तत्कारणम् / स्वरूपसुखसत्तानिश्चयश्च स्वप्रकाशात्मचैतन्यमे वेत्याह -न सुखेति / दुःखदशायामपि स्वरूपसुखं भासत इत्यत्र विवरणाचायसंमतिमाह --तदेतदिति / परमप्रेमास्पदत्वं लक्षणं गमकं यस्प सुखस्य ततथोक्तम् / आत्मा न सुखरूपः / सुखत्वधर्मरहितत्वात् घटवदिति शङ्कते - नन्विति / हेतोरप्रयोजकत्वं निराकरोति-तस्यैवेति / सुखत्वस्यैव सुखरूपतयाऽन्येभ्यो व्या. वर्तकत्वादित्यर्थः / सुखत्वमेव सुखरूपमित्येतत्तावद् दूषयति-न हि सुखत्वमिति / अन्यस्यान्यस्वरूपत्वे घटादिना गगनकुसुमादिकमपि रूपवत्स्यादिति भावः / व्यक्तिस्वरूपमसाधारणजातिरेवेति नोक्तातिप्रसङ्ग इति शङ्कते-असाधारणेति / जातिरेवेत्येवकारेग जात्यतिरिक्तव्यक्तिस्वरूपनिषेधात् द्रव्यगुगादिविभागो न स्यादिति दूषयति-न जातीति / निविशेषसामान्यायोगात् सामान्यपदार्थोऽपि न स्यादित्याह-निःस्वरूपस्येति / किंच किं सुखत्वं व्यक्तिविशेषे वर्तते उत पक्तिमात्रे इति विकल्प द्वितीये घटादावपि तत्स्यादित्यभिप्रेत्याह -किं चेति / आद्येऽपि व्यक्तविशेषो धर्मः स्वरूपं वा ? | प्रथमेऽपि स जन्यो वा अजन्यो वा ? | नाद्य इत्याहप्रथमेऽपीति / सखस्य परमतेऽपि जन्यधर्मानाश्रयत्वादित्यर्थः। द्वितीयेऽपि म जातिरुपाधिवा ? नाद्य इत्याह-तत्रापीति / सुखे इष्टज्ञानजन्यत्वाद्युपाधिरेव स विशेष इति द्वितीयं प्रत्याह-व्यक्तिस्वरूपेति / जन्यत्वादेः स्वरूपातिरिक्तस्य परमते. ऽभावादित्यर्थः। __ आत्मातिरिक्त सखत्वमेव नास्ति तत्र मानाभावात् कुतस्तस्य व्यक्तिस्वरूपत्वमित्यभिप्रेत्याह-सुखानुगतेति / वास्तवसखत्व जातेरभावेऽपि कल्पितजातिरेव सखस्वरूपमित्यत्राहकल्पितेति / कल्पितो भेदो यस्य सुखस्य तदाश्रयजातेरित्यर्थः। अनुपपत्तेश्चेति 30