________________ 232 सटीकाद्वैतदीपिकायाम् आत्मनि दुःखदशायामपि प्रेमास्तित्वनिरूपणम् / ननु दुःखादशायामात्मा सुखमिति नानुभूयते चेत कथं तदा तस्मिन् प्रेमा / इच्छायाः सुखत्वविशिष्टज्ञानजन्यत्वादिति चेन्न / सुन्नासाधारणरूपज्ञानस्यात्मनि प्रेमहेतुत्वात् / सुखत्वविशिष्टज्ञानस्यापि तद्रूपेणैवेच्छाजनकत्वात् / अस्ति च दुःखदशायामप्यनावृत्तचैतन्यानन्दानुभवस्तादृशः। अहं नास्मीति कस्याप्यदर्शनात् / अहमनुभवसाक्षिचैतन्यस्यैव सुखत्वात् / अन्यथा प्रेमानुपपत्तेः। तदेतदाचारप्युक्तम् / "भासत एव परमप्रेमास्पदत्वलक्षणं सुखम्" इति / ननु यद्यात्मनि न सुखत्वं न तात्मा सुखम् / तस्यैव तत्स्वरूपलक्षणत्वादिति चेन्न / न हि सुखत्वं सुखस्य स्वरूपलक्षणम् / तस्य ततोऽन्यत्वात् / अन्यस्यान्यस्वरूपत्वायोगात् / असा. धारणजातिरेव व्यक्तिस्वरूपमिति चेन्न / जात्यतिरिक्तव्यक्तिस्वरूपाभावे विश्वस्य सामान्यमात्रात्मत्वप्रसङ्गात् / निःस्वरूपस्य तव्यक्तित्वाभावात् सामान्यमपि न स्यात्। किं च सुखत्वाश्रयव्यक्ती दाखादिव्यावृत्तौ विशेषोऽस्ति न वा 1 / न चेत्कथं सुखत्व त्वस्य तदात्मतयाऽभिव्यक्त एव स्वरूपसुखे सुखत्ववैशिष्ट्यप्रतीतेरित्यर्थः। सुखत्वस्य वृत्तिविशेषगतत्वमुपपादयति-सुखत्वं हीति / वृत्तिविशेषे सत्येव सुख पदस्य प्रयुज्यमानत्वात्तस्य चाननुगतत्वात्तदनुगतमेव तत्प्रवृत्तिनिमित्ततयाऽनुगतव्यवहारालम्बनं कल्प्यते तदेव सुखत्वम् / तच्च तदनुगतमधिष्ठानचैतन्यमेव वक्ष्यते / आत्मनस्त्वेकव्यक्तित्वान्नानुगतापेक्षेत्याह-नविति / आत्मनि सुखत्वधर्माभावे तत्र कथं वैदिकसुखपदप्रयोग इत्यत्राह-श्रुताविति / श्रुतौ सुखपदस्य लक्षणयाऽऽत्मनि प्रयोगादिति संबन्धः / तर्हि तस्य शक्तिः कुत्रेत्यत आह-वृद्धति / केवलात्मनि लक्षणायां हेतुमाह-लोक इति / / दुःखदशायामात्मनि सुखत्वविशिष्टसविकल्पकाभावे तत्र प्रेमाऽपि न स्यात् कारणाभावे कार्यायोगादिति शङ्कते-ननु दुःखेति /