________________ प्रथमः परिच्छेद: 231 आत्मनः सुखत्वे पूर्व पक्षः ननु यदि सुखमात्मा तर्हि दुःखदशायामात्मेव सुखमपि प्रतीयेत / आवृतच्चान्न तथेति चेत्, तहिं तन्मात्र आत्मापि न प्रतीयेत / ततः कथमात्माऽऽनन्दरूपः / कथं वा तत्काले प्रेम / इच्छाया ज्ञातमात्रविषयत्वादिति चेन्न / अस्ति तावद् दुःखदशायामप्यात्मन्यनोपाधिकः प्रेमा / सच स्वहेतुतया सुखानुभवमाक्षिपति / न चानुभवबाधः। किं सुखमात्रं नानुभूयते किं वा सुखामित्यनेन रूपेण ? / नाद्यः / अहमनुभवे प्रकाशमानचैतन्यमेव सुखमिति मते तदननुभवासिद्धेः। द्वितीयस्त्वङ्गोक्रियते / वृत्तिविशेषप्रतिबिम्बितचैतन्यस्यैव तद्विषयत्वात / सुखत्वं हि सुखपदप्रवृत्तिनिमित्ततयाऽनुगतव्यवहारविषयतया वा वृत्तावेव कल्प्यते / न तु सुखरूप आत्मनि तत्र तत्कल्पने प्रमाणाभावात, श्रुतौ सुखपदस्य वृद्धव्यवहारे वृत्त्यवच्छिन्नचैतन्यात्मसुखे व्युत्पन्नस्य ज्ञानादिपदवललक्षणयात्मनि प्रयोगात, लोके आत्मनि केवले वृद्धानां सुखपदाप्रयोगात्. तस्य तदशक्तः / जडात्मकबुद्धिरेव सुखाश्रयतया ऽनुभूयत इति शङ्कते-बुद्धीति / सांख्यैश्चिज्जडयोस्तादात्म्याध्यासानभ्युपगमाज इधर्मसु खस्यचिदात्मसंबन्धानुभवायोगाच्चिद्रपमेव सुखं कल्पितभेदेन तत्संबन्धितया ऽनुभूयत इत्यभिप्रत्याह-नाहमिति / एवमात्मनः सुखरूपत्वे साधकमुक्त्वा बाधकं परिहर्तुमनुवदति-ननु यदीति / सुखस्यानुभूयमान सत्ताकत्वनियमादनुभवाभावात् सुखमपि नेत्याह-तत इति / दुःखकाले आत्मनोऽननुभवे तत्र प्रेमापि न स्यादित्याह-कथं वेति / आत्मनः सुखरूपत्वे दुःखदशायामपि तदनुभवापादन मिष्टमेव / अन्यथा तदाऽऽत्मनि निरुपाधिकप्रेमानुपपत्तेरित्याह-न अस्ति तावदिति / तदा सुखानुभवोऽनुपलब्धिविरुद्ध इत्याशङ्कयाह-न चेति / किं दुःखद गायां सुखप्रकाश एव नास्तीत्युच्यते किं वा सुखत्वविशिष्टतद्विषयसविकल्पकं नास्तीति विकल्प्य क्रमेण दूषयति-किं सुखमात्रमिति / वृत्तिविशेषेति / स्रक्चन्दनादिविषयविशेषसंपर्कजनितान्तःकरणवृत्तिगतत्वात् सुख