________________ 228 सटीकाद्वैतदीपिकायाम् स्वशत्वादेरपि तथात्वप्रसङ्गादित्युक्तत्वात् / अत एव दुःखाभावाश्रयनयाऽप्यात्मनः परमप्रेमास्पदत्वमिति निरस्तम् / दुःखाभावस्य पुरुषार्थत्वनिरसनम् / स्यादेतत् / भवन्मते दुःखाभाव आत्मैव / कल्पितप्रतियोगिकाभावत्वात् / ततश्चानानन्दोऽप्यात्मा दुःखामावत्वेन परमप्रेमगोचर इति चेन्न / दुःखाभावस्यापुरुषार्थस्य स्वतः कामनाऽसंभवात् / दुःख मे मा भूदित्याद्याशिषः पश्चाद्याशिष इवान्यशेषतयाऽप्युपपत्तेः। लाघवेन सुखस्यैव पुरुषार्थत्वे संभवति तस्यापि स्वतः पुरुषार्थत्वकल्पनायोगात् / एवं च प्रवर्तकज्ञानेऽपि . लाघवम् / न चैवं वैपरोत्यमस्त्विति वाच्यम् / किं दाखसंसर्गाभावमात्रं पुरुषार्थस्तत्र सुखस्योपयोगः उत तध्वंस एव ? / नाद्यः / दुःखबहुले यागादौ पुरुषार्थोच्छेदभियाऽप्रवृत्तिप्रसङ्गात् / दुःख प्रागभावस्य ततो विनाशात् / सुखस्य ततोऽधिकस्याप्यपुरुषार्थ किं त्वात्मीयत्वेनेत्यत आह-असुखात्मेति / दुःखाश्रयतया द्वेषप्रसक्तरपरिहारात्, दुःखदशायामप्यात्मनि प्रेमदर्शनाच न दुःखाभावोऽपि तत्प्रयोजक इत्याह-अत एवेति / नन्वात्मप्रेम्णः परमते ऽन्यथानुपपत्तावपि सिद्धान्तेऽन्यथोपपत्तिसंभवा. दात्मनो न सुखत्वसिद्धिरिति चोदयति-स्यादेतदिति / भवेदेतदेवं यदि दुःखाभावः स्वतः पुरुषार्थः स्यात् / न त्वेतदस्ति / सुखस्यैव स्वरससुन्दरस्य पुरुषार्थत्वादित्याह-न दुःखाभावस्येति / तर्हि दुःखं मे मा भूदिति कामनानुपपत्तिरित्याशङ्कयाह-दुःखमिति / सुखवद् दुःखाभावस्य स्वत एव पुरुषार्थत्वं किं न स्यादित्यत्राह-लाघवेनेति। किं च दुःखाभावस्यापि स्वतः पुरुषार्थत्वे सखदुःखाभावान्यतरसाधनताज्ञानं प्रवर्तकमिति वाच्यम् / तथा च गौरवम् / सुखस्यैव पुरुषार्थत्वे तु तत्साधनताज्ञानमेव प्रवत्तकमिति लाघवमित्याह--एवं चेति / सुखमेव दुःखाभावशेषतया काम्यत इति किं न स्यादित्याशकथाह-न चैवमिति / कि दुःखाभावोत्पत्तौ सुखस्योपयोगः उत ज्ञप्तौ ? आद्येऽपि वक्तव्यमित्याह-किं दुःखेति / दुःखसंसर्गाभावस्य पुरुषार्थत्वे प्रागभावानामपि