________________ प्रथमः परिच्छेदः 227 - न च सुखसमवायित्वेनेष्टतयाऽऽत्मा नानिष्ट इति वाच्यम् / दुःखसमवायितयाऽनिष्टत्वान्नेष्ट इत्यपि वक्तुं शक्यत्वात् / दुःखसाधनानां स्वत इच्छाऽविरोधिनां दुःखसंबन्धितयैव, द्वेषविषयत्वात्, दुःखसमवायिनोऽपि दुःखसंबन्धित्वात् दुःखसमवाय्यतिरिक्तरूपेण तेषां देषविषयत्वे प्रयोजकगौरवात् / आत्मनि द्वेषाभावस्यान्यथाऽपि संभवात् / किं च द्वेषविषयत्वे साक्षात्परम्परासंबन्धेन दुःखत्वमेव प्रयोजकम् / परम्परासंबन्धः समवायिन्यप्यस्तीत्यात्माऽपि द्वेष. गोचरः स्यात् / आत्मनि द्वेषापादनमनुभवविरुद्ध मति चेन्न / आपादनेऽनुभवविरोधस्यालङ्कारत्वात् / अत एवात्मत्वमेव परमप्रेमास्पदत्वे प्रयोजकमिति निरस्तम् / पुत्रादीच्छाया इवात्मेच्छाया अपि सुखविषयत्वनियमात् / तच्च सुखमात्मैव, तदिच्छाया अन्याप्रयुक्तत्वत् / असुखात्मसंबन्धित्वेनैव तेषां स्नेहविषयत्वे आत्मनीष्टत्वप्रयोजकसत्त्वान्नानिष्टत्वमित्याशङ्कय वैपरीत्यमेव किं न स्यादित्याह-न च सुखेति / किं चाहिकण्टकादीनां न जात्याऽनिष्टत्वम् / केषां चिदिष्टत्वात्, किन्तु दुःखहेतुतया। तच्चात्मनोऽपि दुःखित्वाङ्गीकारे दुर्वारमित्याह-दुःखसाधनानामिति / अविरोधिनामिति च्छेदः। नन्वात्मनि द्वेषादर्शनात्तद्वयावर्तनाय गुरुशरारमपि द्वषप्रयोजकमङ्गीकायमिति तत्राह-आत्मनीति / अन्यथाऽपीति / सुखरूपतया दुःखसंबन्धाभावेनापीत्यर्थः। न च सिद्धान्तेऽप्यन्तःकरणे द्वेषगोचरता स्यादिति वाच्यम् / विवेकिनां तस्येष्टत्वात्। अविवेकिनां तु सुखरूपात्मतया गृहीतत्वेन तदभावोपपत्तेरिति भावः। किं च परमतेऽपि दुःखत्वमेव वसंबन्धिनि द्वेषविषयत्वेऽनुगतप्रयोजकम् / स च संबन्धो दुःखे साक्षात् तत्साधनेषु परम्परयेत्यास्मनोऽपि दुःखसमवायित्वात्तत्र विवेकिनामपि द्वेषो दुरि इत्याह-किं चेति / आत्मन इष्टतमत्वानुभवविरुद्धं द्वेषापादनमिति शङ्कते-आत्मनीति / न ह्यस्माभिरात्मनि द्वेषः साध्यते, किं तु तदभावाय तस्य सुखरूपत्वमित्यभिप्रेत्याहआपादन इति / दुःखसमवायित्वेन द्वेषस्यापि प्रसङ्गादेवान्यदपि प्रयोजकं प्रत्युक्तमित्याह-अत एवेति / किं चेच्छात्वस्य सुखविषयत्वेन नियतत्वादात्मनः सुखसमवायितया तदनङ्गीकारे सुखत्वमादायैव तत् पर्यवस्यतीत्यभिप्रत्याह-पुत्रादीति / ननु पुत्रादिकं न सुखसाधनत्वेनेच्छाविषयः। येनेच्छात्वं सुखविषयत्व नियतं स्यात् /