________________ 226. सटोकाद्वैतदीपिकायाम् सुखे मानाभावेन तत्प्रतिसंधानाभावाच्च / मुक्तिपूर्वकालीने आत्मनि प्रेमायोगाच्च / दुःखाभावस्य पुरुषार्थताया निरसिष्यमाणत्वाद्, दुःखसमवायित्वेनात्मन्यत्यर्थं द्वेषप्रसङ्गाच्च / सुखसाधनेषु स्नेहतारतम्यनियमवद् दुःखसाधनेषु द्वेषतारतम्यनियमात्।। ननु हेयगोचरो द्वेषः कथमहेये अात्मनि स्यादिति तयं. पादेयगोचरः स्नेहः कथमनुपादेये आत्मनि स्यादिति तुल्यम् / अथ यत्र ममेदं भूयादितीच्छा सैवोपादेयगोचरा / अहं भूयासमिति तु ततो विलक्षणा सा / सुखसमवायितयाऽऽत्मन इष्टत्वमात्रगोचरेति चेत्तर्हि ममेदं मा भूयादिति द्वेषएव हेयविषयः / नाहं भूयासमिति तु ततो विलक्षणः स आत्मनो दुःखसमवायितयाऽहितत्वमानगोचर इति तुल्यम / न चदुःखातिरिक्तस्य तन्निमित्तत्वमेव द्वेषविषयत्वप्रयोजकमिति वाच्यम् / दुःखतत्साधनयोरनिष्टत्वेन द्वेषविषयत्वात् दुःखसमवायिनोऽपि तत्साधनतयाऽनिष्टत्वात् / तृतीयं दूपयति--भावीति / तव मते मुक्त्यनन्तरं सुखाभाव निश्चयात् तत्पूर्वकालीनात्मनि प्रेमा न स्यादित्याह-मुक्तीति / ननु तदा दुःखाभावप्रतिसंधानेनैव प्रेमे. त्यत आह-दुःखाभावस्येति / सुखसमवायित्वेनात्मनि प्रेमेत्येतत्प्रतिबन्दिग्रहणापि दूपयति-दुःखसमवायित्वेनेति / सखसमवायिनः सुखोत्यत्तिस्थित्योरपेक्षितत्वात् तत्र स्नेहातिशयश्चेत् दुःखोत्पत्तिस्थित्योरपि तस्यापेक्षितत्वात् द्वेषातिशयोऽपि स्यादित्याह--सुखसाधनेष्विति / हानयोग्येष्वेवाहिकण्ट कादिदुःखसाधनेषु द्वेपदर्शनाधेयत्वमपि द्वेषविषयत्वप्रयोजकं तदभावान्नात्मनि द्वेष इति शङ्कते--जनु हेयेति / तर्हि तव मते यत्नलभ्येष्वेव सुखसाधनेषु स्नेहदर्शनाद्यत्नानपेक्षात्मनि स न स्यादित्याह--तहीति / सोपाधिकप्रम्ण एवोपादेयगोचरत्वादनुपादेयात्मनि निरुपाधिकः प्रमा घटत इति शङ्कते .-अथेति / तर्हि औपाधिकद्वपस्यैव हेयगोचरत्वादहेयेप्यात्मनि निरुपाधिकद्वेषो भवेदेवेत्याह--तीति / ननु दुःखस्य दुःखत्वेनैव द्वेषगोचरता तदतिरिक्तस्य दुःखनिमित्तत्वेन ! आत्मनस्तु तदुभयाभावान्न द्वपगोचर तेति चेन्न / अनुगतस्यानिष्टत्वस्यैव सर्वत्र द्वेषप्रयोजकत्वे संभवत्यननुगतस्याप्रयोज. कत्वादित्याह-न च दुःखेति / ननु दुःखातिरिक्तस्यानिष्टत्वे तन्निमित्तत्वमेव प्रयोजकम् / तथा चात्मनो नानिष्टत्वमित्यत आह--दुःखसमवायिनोऽपीति / लाघवेन दुःखकारणस्यैव दुःखातिरिक्तेऽनिष्टत्वप्रयोजकत्वादात्मनोऽपि तद् दुर्वारमित्यर्थः /