________________ प्रथमः परिच्छेदः 225 न चासिद्धिः / सर्वदाऽहं भूयासमिति सर्वेषामात्मनि प्रेमदर्शनात् / तस्यान्याप्रयुक्तत्वात् / न हि पतिजायादिप्रेम्णस्तदतिरितात्मप्रयुक्तत्ववदात्मप्रेमाऽन्येन प्रयुज्यते। नन्वात्मन्यपि सुखसमवायित्वेन प्रेमेत्यप्रयोजकमतुमानम् / अन्याप्रयुक्तत्वमसिद्धं चेति चेत् / न, सुखात्मनोभैंदे आत्मसंबन्धितया प्रेमगोचरस्य सुखस्य तत्प्रेमनिमित्तत्वायोगात् / किं च सुखसमवायित्वेन चेत् प्रेमा तदा दुःखदशायां नात्मनि प्रेम स्यात् / तदा तस्मिन् सुखसमवायाभावात् / आत्मनि भाविसुखवैशिष्ट्यस्येदानीन्तनप्रेमानिमित्तत्वात् / मावि. पद्यत इति भावः / किं च साध्यस्यैव प्रेमगोचरत्वे आत्मनि प्रेमा न स्यात् / स च तत्र सर्वानुभवसिद्ध इत्याह -सर्वदेति / न चात्मनः समयान्तरसंबन्ध एव भूयासमितीच्छागोचरो, न त्वात्मेति वाच्यम् / आत्मनोऽनिष्टत्वे तस्य समयान्तरसम्बन्धेऽपीच्छाऽयोगात् / किं चात्मनस्तर्कितध्वंसे सर्वेषां द्वेषः / स च प्रतियोगिन इष्टत्वमन्तरेणानुपपन्नः / अनिष्टस्य नाशे द्वेषादर्शनात् / तस्मादात्मा सुखत्वेन प्रेमगोचर इति भावः / विशेष्यासिद्धिं परिहृत्य विशेषणासिद्धिं परिहरति-तस्येति / तदेवोपपादयति न हीति / तथा च श्रुतिः, "आत्मनस्तु कामाय सर्वं प्रियं भवति / तदेतत्प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयोऽन्यस्मात्सर्वस्मादन्तरतरं यदयमात्मा" इति / आत्मनः सुखसमवायित्वेनाप्युक्तहेतोः संभवादप्रयोजकत्वम् / सुखार्थमेवात्मन इष्यमाणात्वाद्विशेषणासिद्धिश्चेति चोदयति-नन्वात्मन्यपीति / तत्रासिद्धिं तावत् परिहरति-न सुखेति / सुखस्यानिष्टत्वे तदर्थमात्मन इष्यमाणत्वायोगात्तदिष्यमाणमात्मेच्छाप्रयोजकमिति वाच्यम् / सुखस्य चेष्यमाणत्वं न सुखत्वेन / अन्यदीयसखे तदभावात् / किं त्वात्मसुखत्वेन / ततश्चात्मनोऽनिष्टत्वे तत्संबन्धिसुखेऽपि वैरिसुखवदिच्छाऽयोगादात्मेच्छाप्रयुक्तैव तत्संबन्धिसुखेच्छेति परस्पराश्रयस्तव वज्रलेपायते इति भावः। यदुक्तं सुखसमवायित्वेनात्मनि प्रेमसंभवादप्रयोजकत्व मिति / तद् दूषयति -किं चेति / कि वर्तमानसुखसमवायित्वं प्रेमप्रयोजकमुतागामिसखसमवायित्वं किं वा तत्प्रतिसंधानम् ? / नाद्यः / दुःखदशायां तदभावेऽपि प्रेमदर्शनादित्याह-सुखसमवायित्वेनेति / द्वितीयोऽपि न / भविष्यकारणात् कार्यायोगादित्याह-आत्मनीति / 29