________________ '224 सटोकाद्वैतदीपिकायाम् :: नन्वेवं मोक्षस्याप्यपुरुषार्थत्वप्रसङ्गः। जन्यसुखस्य तदानीमसत्त्वात्, मोक्षस्याशरीरत्वान्, नित्येचात्मातिरिके सुखे प्रमाणाभावादिति चेन्न / दुःखाभावस्यैव मोक्षत्वात् / न च दुःखाभावोऽपुरुषार्थः / सुखवत्तस्यापि दुःखं मे मा भूदिति काम्यमा. नत्वात् / तल्लक्षणत्वात्पुरुषार्थस्य / दुःखाभावः सुखशेषतया काम्यते न तु स्वत इति चेन्न / वैपरीत्यस्यापि वक्तुं शक्यत्वात् / तस्मादुभयमपि पुरुषार्थः // आत्मनः सुखरूपत्वसमर्थनम् / ..श्रुतिश्चानुभवयुक्तिविरोधात दुःखाभावपरेति नात्मा सुखरूप इति / तथाप्यात्मा सुखरूपः। निरुपाधिकप्रेमगोचरत्वात् / व्यतिरेकेणानात्मवत् / निरुपाधिकत्वं च प्रेम्णोऽनन्य प्रयुक्तत्वम् / भावादित्याह-जन्येति / द्वितीयं दूषयति-नित्ये चेति / मोक्षंसु खाभावेऽपि दुःखाभावोद्देशेन मुमुक्षुप्रवृत्तिरुपपद्यत इत्यभिप्रेत्याह-न दुःखाभावस्येति / सर्वत्र सुखम्यैव पुरुषार्थत्वान्नदुःखाभावः पुरुषार्थ इत्यत्राह-न चेति / ननु काम्यमानतामात्रेण कथं दुःखाभावस्य पुरुषार्थत्वमित्यत आह-तल्लक्षणत्वादिति / ननु स्वतः काम्यमानमेव पुरुषार्थः, दुःखाभावस्तु सुखार्थतयैव काम्यतेऽतो न पुरुषार्थ इति शङ्कते-दुःखाभाव इति / दुःखाभावोऽपि स्वत एव काम्यते / न चोभयोरपि स्वतः कामनायां गौरवमिति वाच्यम् / तर्हि सुखमेव दुःखाभावार्थ काम्यत इति किन्न स्यादित्याह-न वैपरीत्यस्येति / तर्हि स्वतस्त्वं कस्येत्याशङ्कय नियामकाभावादुभयमपि स्वत एव काम्यते पुरुषार्थश्चेत्याह-तस्मादिति / ____नन्वात्मनःः सुखरूपत्वं श्रुतिप्रमितं कथमपह्नयत इत्याशङ्कथ श्रुतिरन्यपरे त्याह-श्रुतिश्चेति / एवमात्मनः सुखरूपत्वे संभावितदोषं प्रदर्य तत्परिहारायानुमान ताव. दाह-तथाऽपीति / नन्वात्मेच्छायामपि कस्यचिदुपाः सत्त्वात् कथां निरुपाधिकत्वमित्यत आह - निरुपाधिकत्वं चेति / अनन्य प्रयुक्तत्वं चान्येच्छानधीनत्वम् / पुत्रादिसुखसाधनेच्छायाः आत्मसुखेच्छाप्रयुक्तत्वान्न तत्र व्यभिचार इति भावः / साध्यस्यैवेच्छागोचरत्वात् सिद्धस्यात्मनः कथं तद्गोचरत्वमित्यत आह-न चेति / न हि साध्यत्वमात्रमिच्छागोचरत्वे तन्त्रम् / दुःखे तदभावात् / किं तु सुखत्वे सति साध्यत्वमिति वाच्यम्। तथा च गौरवमिति स खत्वमेव स्वतन्त्रेच्छागोचरत्वे तन्त्रम् / सोपाधिकेच्छायां सुखसाधनत्वमिति सुखरूपात्मनोऽपि प्रेमगोचरत्वमुप