________________ प्रथमः परिच्छेदः 223 नामाभिभूतं अनभिभूतं चेति युज्यते / एतेनान्यदप्यात्मनः सुखाभेदानुमानं निरस्तम् / सुखस्य दुःवाभावस्य च पुरुषार्थत्वम् / किं च सुखस्याऽऽत्मरूपत्वेऽपुरुषार्थत्वापत्तिः / स्वसमवेतसुखस्यैव पुरुषार्थत्वात् / न च सुखमात्रं पुरुषार्थो लाघवादिति वाच्यम् / परसुखस्यापि पुरुषार्थत्वापत्तेः। मम सुखं भूयादहं सुखी स्यामिति च स्वसंबन्धिसुखस्यैव काम्यमानत्वाच / अन्यथा सुखमहं स्यामिति काम्येत। न च सुखं मे स्यादिति कामना तस्यान्यदोयत्वनिवृत्तिपरा न तु स्वसम्बन्धविषयेति वाच्यम् / तात्पर्य हि शब्दधर्मो न तु कामनायाः। कामना तु यमर्थ यथा गोचरयेत् स तथैव पुरुषार्थः / / सखस्य दुःखादिकं प्रति शेषित्वाभावान्न सर्वशेषित्वम् , आत्मशेषत्वाच्च नानन्यशेषत्वमपीत्यर्थः। किं चानन्यशेषत्वादित्येतावता व्यभिचारनिवृत्तेरितरव्यर्थमित्याह-व्यर्थेति / उक्तहेतूनामनुपलब्धिपराहतिमप्याह-यदीति / ननु दिवोडु. गणानुपलम्भवद् दुःखदशायां सतोऽपि सुखस्यानुपलम्भ इति चेन्न / तदभिन्नात्मन्यनभिभूते तदभिभावायोगादित्याह-न च तदेति / उक्तप्रतिकूलतर्कविरोधादेवात्मा सुखरूपः / आत्मत्वात् / व्यतिरेकेण घटवत् इत्याद्यनुमानं निरस्तमित्याह-एतेनेति / / प्रतिकूलतर्कान्तरपराहतिमाह-किं चेति / सुखतत्समवाययोः पुरुषार्थत्वे गौरवात् सुखमेव पुरुषार्थ इत्याशङ्कयाहन च सुखेति / नन्वननुभूयमानसुखस्यापुषार्थत्वात् सुखसाक्षात्कार एव पुरुषार्थः, तथा च नातिप्रसङ्ग इत्यत आह-मम सुखमिति / सुखसाक्षात्कारस्यापि काम्यमानत्वात्पुरुषार्थत्वं वक्तव्यम् / एवं सुखसंबन्धस्यापि काम्यमानत्वात् सोऽप्यावश्यक इत्यर्थः / आत्मरूपमुखस्यैव पुरुषार्थत्वे संबन्धे कामना न स्यादित्याह-अन्यथेति / कामनायाः संबन्धविषयत्वप्रतीतावपि तत्र तात्पर्याभावान्न सुखसम्बन्धः पुरुषार्थ इत्याशङ्कयाह-न च सुखमिति / सुखस्यात्मसमवेतत्वे मुमुक्षप्रवृत्त्यनुपपत्तिरिति चोदयति- नन्वेवमिति / किं मोक्षदशायां जन्यं सुखमुत नित्यम् ? नाद्यः। तदा तत्कारणस्य शरीरेन्द्रियादेर