________________ 222 सटीकाद्वैतदीपिकायाम अनन्यशेषविषयत्वमिच्छायाः परमत्वमिति चेन्न / सुखदृष्टान्ते तदभावात् / तस्यात्मशेषत्वात् / व्यतिरेकित्वे वाऽसाधारएयम् / सुखस्यैव सपक्षत्वात् / न चात्मव्यतिरिक्तं वैषयिकं सुखं नास्तीति वाच्यम् / न ताव द्वषयजन्यसुखमेव नास्तीति वक्त शक्यम् / विषयसन्निधाने तदनुभवविरोधात् / विषयानुपादानप्रसङ्गाच / नापि तदात्मैव / जन्याजन्ययोरेकत्वानुपपत्तेः / न च तस्य जन्यताऽसिद्धिः विषयान्वयव्यतिरेकाभ्यां तस्य तन्निश्चयात् / विषयसन्निधानेनाभिव्यक्तिरेव नोत्पत्तिरिति चेन्न / इदानीं सुखमुत्पन्नं नष्टमिति बुद्धर्ज्ञानाख्याभिव्यक्त्यविषयत्वात् / एतेनात्मा सुखरूपः / सुखलक्षणवत्त्वात् / वैषयिकसुखवत् / सुखलक्षणं च सर्वशेषित्वे सत्यनन्यशेषत्वमिति प्रत्युक्तम् / दृष्टान्तस्य साधनवैकल्यात् / व्यर्थविशेषणत्वाच / यदि च सुखमात्मैव स्यात् तदा दुःखदशायामप्ययं तथैवानुभूयेत / न च तदा दुःखेन सुखमभि. भूतमिति वाच्यम् / तात्मापि न प्रकाशेत / तत्प्रकाशे वा किं तत्र व्यभिचार इत्याह-तत्साधन इति / सुखस्यात्मविशेषणत्वेऽप्युक्तहेतुसंभवादप्रयोजकश्चेत्याह-आत्मनोऽपीति / द्वितोये आत्मविषयेच्छाविषयत्वं हेतुः। सोऽप्यप्रयोजकत्वादयुक्त इत्याह-अत एवेति / / तृतीयमुत्थापयति-अनन्यशेषेति / किमस्मिन् हेतौ सुखवदित्यन्वयदृष्टान्तोऽभिमत उत घट वदिति व्यतिरेकिदृष्टान्तः ? / आद्य साधनवैकल्यमाह-न सुखेति / द्वितीये सति सपक्षे तत्रावतमानत्वादसाधारणानैकान्तिक इत्याह-व्यतिरेकित्वे इति / ननु पक्षातिरिक्तस्य सखस्याभावान्न तस्य सपक्षतेत्यत आह-न चात्मेति / किं विषयजन्यं सुखमेव नास्तीत्यु. च्यते किं वा तस्यात्मभेदो नास्तीति ? / नाद्यइत्याह - न तावदिति / द्वितीयं दूष. यति-नापीति / ननु सखस्य जन्यत्वे मानाभावानात्माभेदानुपपत्तिरित्यत आहन च तस्येति / सुखप्रकाश एव विषयजन्यो न सुखमिति चोदयति-विषयेति / सखे उत्पत्याद्यनुभवस्य बाधाभावात् तदेव विषयजन्यमित्याह-न इदानीमिति / आत्मनः सुखत्वे संभावितमनुमानान्तरं दूषयति-एतेनेति / एतच्छब्दार्थमाह-दृष्टान्तस्येति /