________________ प्रथमः परिच्छेदः 221 हेतूंच्छित्तिरेव विपक्षे बाधकस्तर्क इति वाच्यम् / सुखसमवायित्वे. नापि तदुपपत्तेः। न चैवं दुःखसमवायित्वाद् द्वेषोऽपि स्यादिति वाच्यम् / अन्वयव्यतिरेकाभ्यां द्वेषस्य दुःखतनिमित्तमात्रविषयत्वात् / न च लाघवेन. दुखितत्साधनत्वमानं द्वेषविषयत्वे प्रयोजकमिति वाच्यम् / दु.ख साधनेऽपि स्वस्मिन् तददर्शनेन तस्यैव तत्प्रयोजकत्वात् / - अत एव दुःखतन्मात्रसाधनत्वं देषविषयत्वप्रयोजकम्, आत्मा तु न तथेति प्रत्युक्तम् / अहिकण्टकादेरपि दुःखमात्रहेतुत्वासिडेः, सुखं प्रत्यपि तस्य हेतुत्वात् / न च लाघवेन सुखत्वमेव परमप्रेमगोचरत्वे निमित्तमिति वाच्यम् / स्वसमवेतसुखस्य पुरुषार्थत्वेन तद्र पेणाप्रयोजकत्वात् / किं च हेतावपि परमत्कमिच्छाया न स्वतः, किं तु विषयविशेषप्रयुक्तम् / तच्च सुखविषयत्वमात्मविषयत्वं वा 1 / आधे सुखविषयेच्छाविषयत्वं हेतुः स चासिद्धः / तत्साधने व्यभिचारो च 'आत्मनोऽपि सुखसमवायितया तद्विषयत्वसंभवादप्रयोजकश्च / अत एव न द्वितीयोऽपि / विशेषत्वेन गौरवात् दुःखतत्कारणमात्रं लाघवेन द्वेषगोचर इत्याशङ्कय प्रामाणिक गौरवं न दोषायेत्यभिप्रेत्याह--न च लाघवेनेति / ननु दुःखतन्मात्रकारणत्वं द्वेषगोचरत्वप्रयोजकम् / आत्मनस्तु सुखं प्रत्यपि कारणत्वान्न द्वेषगोचरतेत्याशङ्कयाह-- अत एवेति / अतः शब्दार्थमाह-अहीति / ननु सुखसमवायित्वापेक्षया सुखत्वस्यैव लाघवेन परमप्रेमप्रयोजकत्वादात्मनः सुखत्वसिद्धिरिति चेन्न। सुखस्यात्मरूपत्वे वक्ष्यमाणेनापुरुषार्थत्वप्रसङ्गन लाघवानवतारादित्यभिप्रत्याह-न च लाघवेनेति / किञ्च प्रेम्णः परमत्वं जातिरुपाधिर्वा / नाद्यः ? / तत्कल्पकाभावात् / तदङ्गीकारेऽप्यप्रयोजकत्वादित्यभिप्रेत्याह-किं चेति / द्वितीयं परिशिनष्टि-किं त्विति / अस्यापि विकल्पासहत्वान्नात्मनः सुखत्वसिद्धिरित्यभिप्रेत्य विकल्पयति-तच्चेति / आत्मविषयत्वं वाऽनन्यशेषत्वं वेत्यपि द्रष्टव्यम् / आये आत्मेच्छायां सुखविषयत्वमात्मनः सुखत्वे सिद्ध सिद्धयति तच्चाद्याप्यसिद्धमिति विशेषणासिद्धो हेतुरित्याहआद्य इति / किं च सुखसाधनस्यापि स्वविशेषणसुखविषयत्वमस्ति न सुखत्वमिति