________________ 220 सटीकाद्वैतदीपिक याम् मुख्यार्थे लक्षणाया अयोमात् / आत्मन आनन्दत्वे अनुमानमपि मानम्। तत्र यचापि नेच्छाविषयत्वं सुखत्वेन नियतं तत्साधने व्यभिचारात् / न चेच्छात्वं सुखविषयत्वेन व्याप्तम्, साधनेच्छाया अपि सुखविषयत्वादेवेति वाच्यम् / दुःखाभावेच्छायां व्यभिचारात् / नापीच्छात्वेन सुखदुःखाभावतत्साधनान्यतरविषयत्वं साध्यम् / असुखत्वेनार्थान्तरत्वात् / आत्मनः सुखरूपत्वे साधकहेतोरप्रयोजकत्वशङ्का * नन्वात्मा सुखरूपः / परमप्रेमास्पदत्वात् इति चेन्न। अमयोजकत्वात् / न च सुखसाधने परमप्रेमाभावादात्मनोऽसुखत्वे स्येति / किं चानन्दो दुःखाभावो न भवति / दुःखप्रतीतिनिरपेक्षप्रतीतिकत्वात् / घटवत्, इत्याह-प्रतियोगीति / विपक्षे दण्डमाह-अन्यथेति / दुःखमेव सुखाभावः किं न स्यादित्यर्थः / एवं च लोके आनन्दपदार्थस्य भावरूपत्वात् वेदेऽपि स एवानन्दशब्दार्थः। दुःखाभावे च लोके शक्तिमहाभावात् / तत्परिग्रहे लक्षणाप्रसङ्ग इत्याह-वेदेऽपीति / श्रुतौ विप्रतिपन्नं प्रत्यनुमानं प्रमाणयति-अनुमानमिति / तत्र स्वाभिमतानुमान दर्शयितुं पूर्ववादिमुखेनानुमानान्तरं दूषयति-तत्र यद्यपीति / अस्य तथाप्यात्मा सुखरूपः, निरुपाधिकप्रेमगोचरत्वात् , इत्युत्तरेण सम्बन्धः / तन्त्रात्मा सुखरूपः। इच्छाविषयत्वात्, इति प्रयोगं दूषयति-नेच्छाविषयत्वमिति / आत्मेच्छा सुखविषया इच्छात्वात् सम्मतवत् / ततश्चात्मनः सुखत्वसिद्धिः / न च सुखसाधनेच्छायां व्यभिचारः। तस्या अपि विशेषणतया सुखविषत्वात् . इति न वाच्यमित्याह-न चेच्छात्वमिति / नन्वात्मेच्छा सुखतत्साधनदुःखाभावतत्साधनान्यतरविषया / इच्छात्वात् / संमतवत्। तथा चात्मनः परिशेषात् सुखत्वमिति चेन्न / सुखसमवायित्वेनात्मविषयत्वेपिआत्मेच्छायाः सुखविषयत्वसंभवादित्याह-नापीति / प्रेमगोचरत्वस्य पुत्रादौ व्यभिचारेऽपि परमप्रेमगोचरत्वं न व्यभिचारतीति शङ्कते-नन्वात्मेति / / .... विपक्षे बाधकामावादप्रयोजक इति दूषयति-नेति / हेतूच्छित्तिरेव विपक्षे बाधिकेत्याशङ्कय हेतोरन्यथासिद्धया परिहरति-न च सुखेति / इच्छाविषयसुखाश्रयत्वादात्मनः प्रमगोचरत्वे द्वेषविषयदुःखाश्रयत्वात् द्वेषगोचरताऽपि स्यादित्या-शङ्कय दुःखाश्रयेऽप्यात्मनि द्वेषाभाषात् मैवमित्याह-न चैवमिति / निमित्तस्य कारण